बलरामपुरम् : राष्ट्रीय ग्रामीण आजीविका मिशन इत्यस्यान्तर्गते उद्योग सखिभ्यो मिलितः पञ्चदिवसीयम् आवासीयं प्रशिक्षणम्
बलरामपुरम्, 20 फ़रवरीमासः (हि.स.)। राष्ट्रीय-ग्रामीण-आजीविका-मिशन अन्तर्गत जनपदे गठितानां प्रोड्यूसर-ग्रुप-समूहानां उद्योग-सखीभ्यः १६ तः २० फरवरी-पर्यन्तं पञ्च-दिवसीय-आवासीय-प्रशिक्षण-कार्यक्रमः बलरामपुर-स्थिते जेंडर-रिसोर्स-केन्द्रे आयोजितः। एष
कार्यक्रम की तस्वीर।


बलरामपुरम्, 20 फ़रवरीमासः (हि.स.)।

राष्ट्रीय-ग्रामीण-आजीविका-मिशन अन्तर्गत जनपदे गठितानां प्रोड्यूसर-ग्रुप-समूहानां उद्योग-सखीभ्यः १६ तः २० फरवरी-पर्यन्तं पञ्च-दिवसीय-आवासीय-प्रशिक्षण-कार्यक्रमः बलरामपुर-स्थिते जेंडर-रिसोर्स-केन्द्रे आयोजितः।

एषः प्रशिक्षण-कार्यक्रमः जिला-पञ्चायत-सीईओ नयनतारा-सिंह-तोमर महोदयायाः मार्गदर्शने सम्पन्नः। सा समय-समये प्रशिक्षणस्य अवलोकनं कृत्वा प्रतिभागिनीनां मार्गदर्शनम् अपि अकरोत्।

अस्मिन् प्रशिक्षण-कार्यक्रमे जनपदस्य विविध-प्रोड्यूसर-ग्रुप-समूहात् चयनिताः उद्योग-सख्यः उत्साहपूर्वकं सहभागं कृतवन्त्यः। राज्य-स्तरीय-प्रशिक्षित-मास्टर-ट्रेनराः तथा प्रदान-संस्थायाः प्रतिनिधयः प्रतिभागिनीनां प्रति प्रोड्यूसर-ग्रुप-गठनस्य उद्देश्यं तथा समूह-आधारित-आजीविका-संवर्धन-रणनीतयः विस्तरेण अवदन्।

प्रशिक्षण-काले बाजार-आवश्यकतानुसारं आजीविका-गतिविधीनां चयनम्, उत्पादानां मूल्य-निर्धारणम्, लागत-विश्लेषणम्, लाभांश-गणना तथा प्रभावी-विपणन-रणनीतयः इत्यादिषु विशेष-सत्राणि आयोजितानि। प्रतिभागिन्यः व्यावहारिक-प्रशिक्षणेन सुसज्जीकृताः येन समूहानां अधिकतम-लाभ-प्राप्तिः सुनिश्चितीक्रियते।

प्रोड्यूसर-ग्रुप-समूहानां पारदर्शी-सुचारु-सञ्चालनार्थं आवश्यक-अभिलेख-पञ्जी-रक्षणम्, तेषां महत्त्वम् तथा उत्तरदायित्व-निश्चयने उद्योग-सखीभ्यः भूमिका इत्यादिषु विषयेषु अपि विस्तृत-चर्चा कृता।

एतस्य पञ्च-दिवसीय-आवासीय-प्रशिक्षणस्य मुख्य-उद्देश्यं उद्योग-सखीः प्रोड्यूसर-ग्रुप-समूहानां दृढ-आधार-रूपेण सुसज्जीकर्तुं वित्तीय-साक्षरता, विपणन-कौशलं तथा उद्यमिता-क्षेत्रे दक्षतां प्रदातुम् अस्ति, येन ग्रामीण-महिलाभ्यः स्थायी-सशक्त-आजीविका-अवसराः प्राप्येरन्।

---------------

हिन्दुस्थान समाचार