Enter your Email Address to subscribe to our newsletters


देवरिया, 20 फ़रवरीमासः (हि.स.)।
उत्तरप्रदेशस्य देवरिया जनपदस्य सलेमपुर तहसील क्षेत्रे स्थिते ग्रामे बनकटा शिव नाम्नि आयोजिते लक्ष्मी नारायण महायज्ञे विग्रह प्राण प्रतिष्ठा महोत्सवे अमृतमयी कथा कार्यक्रमे च शुक्रवासरे जम्मू कश्मीरस्य उप राज्यपालः मनोज सिन्हा सहभागितां कृतवान्। धार्मिकअनुष्ठानानां वैदिकमन्त्रउच्चारणानां मध्ये सम्पन्ने अस्मिन् भव्यकार्यक्रमे क्षेत्रीयश्रद्धालूनां विशालसंख्या उपस्थिताऽभवत्। कार्यक्रमस्थले आगमने आयोजकैः ग्रामवासिभिः च तस्य पारम्परिकरीत्या स्वागतं कृतम्।
स्वसम्बोधने उप राज्यपालः उक्तवान् यत् सनातनसंस्कृतिः अनेकान् आक्रमणान् कठिनपरिस्थितीः च समालम्ब्य अपि अद्यापि स्वजीवन्ततां आध्यात्मिकशक्तिं च अक्षुण्णां धारयति। सः अवदत् यत् प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य नेतृत्वे देशे सनातनमूल्यानां संरक्षणसंवर्धनयोः नूतनः कालखण्डः आरब्धः अस्ति। समाजं विभाजयितुं प्रयतमानाभ्यः शक्तिभ्यः सावधानं भवितुम् आह्वानं कृत्वा सः उक्तवान् यत् सामाजिकसमरसता राष्ट्रियएकता च भारतस्य महान् शक्तिः अस्ति।
सः प्रायः पञ्चशतवर्षाणां दीर्घप्रतीक्षानन्तरं अयोध्यायां भगवान् श्रीरामस्य भव्यदेवालयनिर्माणस्य उल्लेखं कृत्वा अवदत् यत् एषः आस्था धैर्य सांस्कृतिकएकता च इत्यस्य प्रतीकः अस्ति। एतत् केवलं देवालयनिर्माणं न, अपि तु कोटिशः जनानां श्रद्धाविश्वासयोः पुनर्स्थापनम् अस्ति। सः अवदत् यत् अद्य भारतम् आर्थिकप्रगत्या सह समावेशीविकासे डिजिटलसशक्तीकरणे आधुनिकआधारभूतसंरचनाक्षेत्रे च शीघ्रं प्रगच्छति।
पौराणिकमान्यतानां उल्लेखं कृत्वा सः अवदत् यत् त्रेतायुगे देवरिया इत्यस्य उत्पत्तिः मन्यते तथा च एषा मान्यता अस्ति यत् भगवान् श्रीरामः वनवासकाले अस्मिन् क्षेत्रे अपि चरणौ स्थापितवान्। सः समाजे समरसतां एकतां सांस्कृतिकमूल्यानि च सुदृढीकर्तुं आवश्यकता अस्ति इति विशेषतः बलं दत्तवान्।
हिन्दुस्थान समाचार