Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 20 फ़रवरीमासः (हि.स.)।
जिलायां स्वच्छताव्यवस्थानां भूमिस्थितेः मूल्याङ्कनं कृत्वा ताः अधिकं सुदृढाः कर्तुं उद्दिश्य राज्यसलाहकारः पुरुषोत्तम पण्डा शुक्रवासरे विविधाः ग्रामपञ्चायतीः विस्तरेण परिभ्रम्य व्यवस्थाः परीक्षितवान्। निरीक्षणसमये तेन स्वच्छता तथा कचरा प्रबन्धनसम्बद्धकार्याणां प्रगतेः समीक्षा कृता तथा आवश्यकाः दिशानिर्देशाः दत्ताः।
भ्रमणकाले राज्यसलाहकारेण फीकल स्लज ट्रीटमेंट प्लांट इत्यस्य निरीक्षणं कृत्वा अस्य नियमितसञ्चालनं समयबद्धस्लज निस्तारणं च सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः। ग्रामपञ्चायतीषु निर्मितानां सामुदायिकव्यक्तिगतशौचालयानां अपि अवलोकनं कृत्वा स्वच्छता जलोपलब्धता सम्यक् रखरखावः नियमितोपयोगश्च सुनिश्चितः क्रियताम् इति बलं दत्तम्।
सेग्रीगेशन शेड तथा ठोसअपशिष्टप्रबन्धनव्यवस्थायाः समीक्षा कुर्वन् सः कचरसंग्रहणस्य नियमिततां गीलशुष्ककचरयोः पृथक्करणं तस्य वैज्ञानिकनिपटानं च अधिकं प्रभावी कर्तुं निर्देशान् अदात्। स्वच्छग्राही दीदीभ्यः कचरसंग्रहणनियमिता पृथक्करणप्रक्रिया यूजर चार्ज इत्यस्य प्रावधानानि च विस्तारतः अवगतं कारितम्।
राज्यसलाहकारः अवदत् यत् स्वच्छताअभियानस्य सफलतायां स्वच्छग्राही दीदी इत्येभ्यः भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। नगरीयग्रामीणक्षेत्रयोः ठोसतरलअपशिष्टप्रबन्धनस्य सुदृढव्यवस्था एव स्वच्छस्वस्थपर्यावरणस्य आधारशिला भवति। सः सम्बन्धिताधिकारिभ्यः अभियानस्य प्रभाविसततक्रियान्वयनाय निर्देशान् अददात्।
---------------
हिन्दुस्थान समाचार