Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २० फरवरीमासः (हि.स.)। भारत–निर्वाचन–आयोगेन पश्चिम–बंगाल–राज्ये मतदाता–सूच्याः विशेष–गहन–पुनरीक्षणस्य (एसआईआर) पश्चात् आपत्तीनां श्रवणकाले प्राप्त–परिचय–तथ्यानां अपलोड–प्रक्रियायाम् ज्ञात्वा विलम्बं क्रियमाणानां निर्वाचन–पंजीकरण–अधिकारिणां (ईआरओ) तथा सहायक–निर्वाचन–पंजीकरण–अधिकारीण: (एईआरओ) चिन्हिता:।
राज्य–मुख्य–निर्वाचन–अधिकारी–कार्यालयस्य सूत्रैः प्राप्तं यत् प्राय: १२०–१५० निर्वाचन–पंजीकरण–अधिकारिणा सह सहायक–निर्वाचन–पंजीकरण–अधिकारी अस्मिन् प्रकरणे दोषिण: प्रदर्शिताः। तथापि आयोगस्य निकटं अधुना संबंधित–अधिकारिणां अधिकारिक–संख्या सार्वजनिकी न कृता।
सूत्राणि उक्तवन्तः यत् कतिपय-अधिकारिणः १४ फरवरीमासे विस्तारित–अंतिम–श्रवण–तिथिसमाप्तेः अनन्तरं अपि पञ्चदिवसपर्यन्तं कर्गद–अपलोड–प्रक्रियां लंबितं कृतवन्तः। अस्या: कथित–उदासीनतायाः कारणेन बहवः मतदातृणां कर्गदानि अद्यापि प्रणाली–मध्ये पञ्जीकृताः न सन्ति। यावत् एतानि कर्गदानि अपलोड–पञ्जीकरणं पूर्णं न भविष्यति, तावत् तेषां विधिवत् परीक्षणं अपि सम्भवः न। एषा परिस्थितिः २१ फरवरी–पर्यन्तं कर्गद–परीक्षण–समयसीमायाः सुनिश्चितत्वे संदेहं उत्पादितवती।
सूत्रैः निर्देशितं यत् यदि कर्गद–परीक्षण–समयसीमा विस्तारनीया भविष्यति, तर्हि २८ फरवरीमासे निर्धारिताया: अन्तिम–मतदाता–सूच्याः प्रकाशन–तिथिः अपि स्थगिता भवितुम् अर्हति।
सूत्राणि अधिकं सूचयन्ति यत् आयोगः दोषिणां अधिकारिणां विरुद्धं जन–प्रतिनिधित्व–अधिनियमस्य प्रावधानानुसार कठोर–कार्यवाहीं करिष्यति। अस्मिन् एव क्रमे द्वयोः निर्वाचन–पंजीकरण–अधिकारिणां, नव सहायक–निर्वाचन–पंजीकरण-अधिकारीणां, एकं विवरणं प्रविष्टि–कर्मिणः तथा त्रयाणां सूक्ष्म–प्रवेक्षकाणां विरुद्धं पूर्वमेव कार्यवाही–प्रक्रिया आरब्धा अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता