Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 20 फ़रवरीमासः (हि.स.)।
बस्तर प्रदेशस्य साहित्यकारेण रुद्र नारायण पाणिग्राहिणा विरचितस्य “बस्तर की लोककलाः एवं संस्कृति” इति ग्रन्थस्य विमोचनसमारोहः रायपुर नगरे फरवरीमासस्य २१ दिनाङ्के आयोजितः अस्ति।
अयं कार्यक्रमः शान्तिनगरस्थिते विमतारा ऑडिटोरियम् नाम सभागृहे सम्पन्नः भविष्यति। अस्मिन् समारोहे साहित्यकाराः कलाकाराः संस्कृतिप्रेमिणश्च सहभागी भविष्यन्ति। अस्मिन् ग्रन्थे बस्तरप्रदेशस्य लोककलानां संस्कृतेश्च विस्तृतवर्णनं कृतम् अस्ति, येन पाठकाः तस्य समृद्धां सांस्कृतिकपरम्परां ज्ञातुं शक्नुवन्ति।
रुद्रनारायणपाणिग्राही महोदयः स्वस्य साहित्यिकयोगदानस्य कारणेन “सरस्वती साहित्य सम्मान २०२६” इति पुरस्कारॆण अपि सम्मानितः भविष्यति, यः अस्य कार्यक्रमस्य महत्त्वपूर्णः अङ्गः अस्ति।
अस्मिन् अवसरे बस्तरप्रदेशस्य लोककलानां संस्कृतेश्च विषये चर्चा भविष्यति। परिचर्चायाः द्वौ सत्रौ अपि आयोजितौ स्तः। तदनन्तरं स्थानीयकलाकाराणां स्वकौशलप्रदर्शनार्थं ‘हुनरमञ्च’ इत्यस्य आयोजनम् अपि कृतम् अस्ति।
अयं कार्यक्रमः बस्तरप्रदेशस्य संस्कृतेः संवर्धनाय तस्याः महत्त्वस्य प्रकाशनाय च एकः महत्त्वपूर्णः प्रयासः भविष्यति।
---------------
हिन्दुस्थान समाचार