अमेरिकी वैदिक विद्वान् डॉ. फ्रॉले मुख्यमंत्रिणा सहाकरोत् मेलनं, कथितं- राजनीतेः शुद्धिकरणं कुरुते योगी आदित्यनाथः
- योगिनि तेजः अस्ति,यतः सः‘आदित्यः’ , सूर्य तत्त्वेन युतः, सूर्यः एव योगस्क्ष का आधार: डाॅ फ्राले लखनऊ, 20 फरवरीमासः (हि.स.)।अमेरिकादेशस्य प्रख्यातः वैदिकविद्वान् डेविड फ्रॉली शुक्रवासरे राजधान्यां योगिना आदित्यनाथेन सह साक्षात्कारम् अकरोत्। अस
मुख्यमंत्री से मिले अमेरिकी विद्वान


- योगिनि तेजः अस्ति,यतः सः‘आदित्यः’ , सूर्य तत्त्वेन युतः, सूर्यः एव योगस्क्ष का आधार: डाॅ फ्राले

लखनऊ, 20 फरवरीमासः (हि.स.)।अमेरिकादेशस्य प्रख्यातः वैदिकविद्वान् डेविड फ्रॉली शुक्रवासरे राजधान्यां योगिना आदित्यनाथेन सह साक्षात्कारम् अकरोत्। अस्मिन् अवसरे तेन मुख्यमन्त्रिणा सह योग आयुर्वेद सनातनसंस्कृतेः विषये विस्तृतचर्चा कृता तथा योगीसरकारेण अयोध्यायाः पुरातनगौरवस्य पुनर्स्थापनाय कृतानां कार्याणां प्रशंसा अपि कृता।

डॉ फ्राॅले उक्तवान् यत् योगी आदित्यनाथः राजनीतेः शुद्धीकरणं कुर्वन्ति। मुख्यमन्त्रिणः बहुआयामव्यक्तित्वस्य प्रशंसकः सन् सः नाथपरम्परायाः उदाहरणं दत्त्वा उक्तवान् यत् अस्याः परम्परायाः माध्यमेन वैश्विककल्याणस्य नूतना दिशा प्रशस्ता भवति। अयोध्यायाः कायाकल्पः वेदानां प्रति पुनरागमनस्य मार्गः अस्ति।

सः अवदत् यत् योगिना आदित्यनाथेन सह समयव्यतीतिः मम कृते महान् सम्मानः सौभाग्यं च आसीत्। गोरक्षपीठाधीश्वरः योगी नाथपरम्परायाः सम्बद्धः अस्ति या प्राचीनयोगसंस्कृतेः सह सम्बद्धा अस्ति तथा भारतदेशे तां जीवयति। सः एताः परम्पराः न केवलं संरक्षति अपि तु ताः वैश्विकस्तरे विस्तारयति। सः शरीरस्य मनसः समाजस्य च स्वास्थ्यकल्याणाय अपि कार्यं करोति।

डॉ फ्राॅले पुनः उक्तवान् यत् योगी आदित्यनाथः राजनीतेः शुद्धीकरणं साधयति। भारतस्य याः सर्वाः परम्पराः सम्पूर्णमानवतायाः कृते प्रासंगिकाः सन्ति ताः योगी आदित्यनाथस्य माध्यमेन नूतनां ऊर्जा प्राप्नुवन्ति।

मुख्यमन्त्रिणा सह मिलित्वा प्रफुल्लितः डॉ फ्राॅले नूतनायाः अयोध्यायाः प्रशंसां कृतवान्। सः अवदत् यत् अयोध्यायाः कायाकल्पः अत्यन्तं हर्षकारकः अस्ति। प्रभोः श्रीरामस्य दर्शनं आध्यात्मिकरूपेण अत्यन्तं सुखदं अनुभवः भवति। भगवान् रामः भारतस्य आत्मनः प्रतीकः अस्ति। सः अस्मान् सूर्यवंशेन सह संयोजयति तथा समस्ताः धार्मिकपरम्पराः एकसूत्रे पिरोति।

अद्य विश्वं शनैः शनैः स्वीयां आध्यात्मिकचेतनां नष्टं करोति। तस्मिन् समये वेदाः योगः आयुर्वेदः अन्याः भारतीयपरम्पराः च सर्वेषां नवोन्मेषः पुनर्जीवनं च अत्यावश्यकम् अस्ति। एतादृशे काले योगीजी इव नेतृत्वं भारतस्य अपि तु समग्रविश्वस्य कृते वरदानम् अस्ति।

डॉ फ्राॅले उक्तवान् यत् योगीमध्ये तेजः अस्ति यतः सः आदित्य इति नाम्ना प्रसिद्धः सूर्यतत्त्वेन सम्बद्धः च। आत्मविद्यायै वयं आदित्यं प्रति पश्यामः तथा सूर्यः एव योगस्य आधारः अस्ति। योगीजी सह कतिचन क्षणान् व्यतीतवन्तः अपि जीवनपर्यन्तं स्मरणीयाः भवन्ति।

अमेरिकादेशस्य विसकॉन्सिनप्रदेशे कैथोलिकपरिवारे जातः डॉ डेविड फ्रॉले अन्ताराष्ट्रियस्तरे हिन्दुत्वस्य प्रमुखविचारकानां मध्ये गणितः। सः दशवर्षपर्यन्तं आयुर्वेदस्य अध्ययनं कृतवान्। वेद हिन्दुधर्म योग आयुर्वेद ज्योतिषशास्त्रेषु च तेन बहवः ग्रन्थाः लिखिताः। वर्षे २०१५ तमे सः भारतसर्वकारेण पद्मभूषणसम्मानेन सम्मानितः। तस्मिन्नेव वर्षे मुंबईनगरे साउथ इण्डियन एजुकेशन सोसायटी संस्थया आयुर्वेद योग वैदिकज्योतिषशास्त्रयोः क्षेत्रे तस्य उल्लेखनीययोगदानस्य कृते नेशनल एमिनेंस अवार्ड इति सम्माननम् अपि प्रदत्तम्।

---------------

हिन्दुस्थान समाचार