Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 20 फ़रवरीमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः तथा प्रधानमन्त्री नरेन्द्रमोदी शिलॉङ्गनगरात् लोकसभासांसदस्य डॉ रिकी एण्ड्र्यू जे सिंगकों इत्यस्य निधनसम्बन्धे गाढं शोकं व्यक्तवन्तौ।
राष्ट्रपतिः द्रौपदी मुर्मुः स्वशोकसन्देशे उक्तवती यत् डॉ सिंगकों इत्यस्य निधनवार्ता अत्यन्तं दुःखदा अस्ति। तेन मेघालयराज्यस्य विकासाय जनकल्याणाय च समर्पितभावेन कार्यं कृतम्। राष्ट्रपतिः दिवंगतसांसदस्य परिवारजनानां समर्थकानां च प्रति गाढां संवेदनां व्यक्तवती।
प्रधानमन्त्री नरेन्द्रमोदी अपि शोकं प्रकट्य अवदत् यत् डॉ सिंगकों मेघालयजनसेवायै सदैव स्मरणीयः भविष्यति। अस्मिन् कठिनकाले तस्य संवेदनाः परिवारजनैः मित्रैः समर्थकैः च सह सन्ति इति उक्त्वा दिवंगतात्मनः शान्त्यर्थं प्रार्थनां कृतवान्।
उल्लेखनीयम् अस्ति यत् शिलॉङ्गनगरात् लोकसभासांसदः रिकी एण्ड्र्यू जे सिंगकों गुरुवासरे सायंकाले दिवंगतः। सूच्यते यत् सः शिलॉङ्गनगरे मैत्रीपूर्णे फुट्सल क्रीडासत्रे क्रीडन् अकस्मात् मूर्छितः भूत्वा भूमौ पतितः।
---------------
हिन्दुस्थान समाचार