होलीकोत्सव–सम्मर्दस्य दृष्ट्या दक्षिण–पूर्व–रेलविभागेन विशेष–रेल–सेवाः घोषिता:
खड़गपुरनगरम्, २० फरवरीमासः (हि.स.)। होली–पर्वणि यात्रिणां अधिक–सम्मर्दं दृष्ट्वा दक्षिण–पूर्व–रेलसंस्थया संतरागाछी–दरभंगामार्गे विशेष–रेल–सेवा आयोज्यते। एषा होली–स्पेशल–रेल–सेवा मार्च–मासे निश्चित–तिथिषु संचाल्यते, येन पूर्व–भारतस्य बिहारस्य च यात्
रेलवे समय सूची


खड़गपुरनगरम्, २० फरवरीमासः (हि.स.)। होली–पर्वणि यात्रिणां अधिक–सम्मर्दं दृष्ट्वा दक्षिण–पूर्व–रेलसंस्थया संतरागाछी–दरभंगामार्गे विशेष–रेल–सेवा आयोज्यते। एषा होली–स्पेशल–रेल–सेवा मार्च–मासे निश्चित–तिथिषु संचाल्यते, येन पूर्व–भारतस्य बिहारस्य च यात्रिणां यात्रायै सुविधायाः अधिक: लाभः प्राप्स्यते।

गुरुवासरे रात्रौ दक्षिण–पूर्व–रेलसंस्थया प्रेस–विज्ञप्तिं प्रकाशयित्वा सूचना प्रदत्ता। तस्याः अनुसारः रेलयान–संख्या 08109 संतरागाछी–दरभंगा होली–विशेषं प्रतिमंगलवासरं ३ मार्च २०२६ आरभ्य ३१ मार्च २०२६ पर्यन्तं संचाल्यते। एतत् रेलयानं संतरागाछी–रेलव–संस्थात्रात् प्रातः ०७:३० वादने प्रस्थानं कृत्वा तस्मिन्नेव दिने सायंकाले १९:०५ वादने दरभंगा-रेलसंस्थात्रं आगमिष्यति।

तत्रैव प्रत्यावर्तने मार्गे रेल–संख्या 08110 दरभंगा–संतरागाछी होली–विशेषं प्रतिमंगलवासरं ३ मार्च आरभ्य ३१ मार्च पर्यन्तं संचाल्यते। एषः दरभंगात् रात्रौ २१:०० वादने प्रस्थानं कृत्वा अग्रिमे दिने प्रातः ०९:४५ वादने संतरागाछी–संस्थात्रं आगमिष्यति।

इदं विशेष–रेलयानं मार्गे डानकुनी, बर्द्धमान, दुर्गापुर, आसनसोल, चित्तरंजन, मधुपुर, जसीडीह, झाझा, किऊल, बरौनी तथ समस्तीपुर–संस्थात्रेषु अवरुद्धं भविष्यति। रेल–अधिकारिभि: उक्तम् यत् पर्वणि यात्रिणां अधिकं सम्मर्दं दृष्ट्वा विशेष–रेलयानानि निरन्तरं सञ्चालयिष्यन्ति, येन यात्रिणां यात्रायै सुगमता–सुरक्षा च सुनिश्चिते भविष्यत:।

हिन्दुस्थान समाचार / अंशु गुप्ता