Enter your Email Address to subscribe to our newsletters

लखनऊ, 21 फ़रवरीमासः (हि.स.)। बहुजन समाजदलस्य राष्ट्रियाध्यक्षा मायावती नई दिल्ली नगरे आयोजिते ‘एआई इम्पैक्ट समिट’ इत्यस्मिन् शिखर सम्मेलने भारतीय राष्ट्रिय कांग्रेसदलस्य युवाशाखाया विरोधप्रदर्शनं प्रति तीव्रनिन्दां व्यक्तवती।
सा एतत् आचरणम् अति अशोभनीयम् तथा निन्दनीयम् इति निरूप्य उक्तवती यत् एतादृशेषु अन्ताराष्ट्रियकार्यक्रमेषु एतादृशं व्यवहारं देशस्य गरिमां छविं च प्रभावितं करोति, यत् न युक्तम्।
शनिवासरे ‘एक्स’ इति सामाजिकमाध्यमे लिखन्ती सा अवदत् यत् नई दिल्ली नगरे आयोजिते अस्मिन् ‘एआई इम्पैक्ट समिट’ इत्यस्मिन् देशविदेशयोः अनेके प्रमुखजनाः आमन्त्रिताः आसन्। अयं कार्यक्रमः अन्ताराष्ट्रियस्तरे बहुचर्चितः आसीत्। अस्मिन् अवसरः ये केचन अर्धनग्नरूपेण स्वरोषं प्रदर्शितवन्तः, येषु बहवः कांग्रेसी युवाः कथ्यन्ते, तत् अति अशोभनीयम् तथा निन्दनीयम्।
सा पुनः लिखितवती यत् यदि अयं सम्मेलनः केवलं राष्ट्रीयस्तरस्य आसीत् तर्हि भिन्ना स्थितिर्भवेत्, किन्तु अन्ताराष्ट्रियशिखरसम्मेलनस्य समये एतादृशं आचरणं चिन्ताजनकम् अस्ति। अतः स्वदेशस्य गरिमा छविश्च न क्षीयेतां, इति युक्तम्।
---------------
हिन्दुस्थान समाचार