Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 20 फरवरीमासः (हिं.स.)।
अखिलभारतीयवनवासीकल्याणाश्रमसंस्थया देशव्यापि आदिवासीसशक्तिकरणग्रामीणविकासयोः प्रोत्साहनार्थं ऐतिहासिकं सर्वभारतीयसहमतिपत्रे हस्ताक्षराः कृताः। अस्य उपक्रमस्य अन्तर्गतं द्विपञ्चाशत्सहस्रेषु ग्रामेषु सुव्यवस्थितप्रभावीविकासकार्यक्रमाः प्रवर्तिष्यन्ते। अनेन राष्ट्रीयप्रयत्नेन आदिवासीग्रामीणप्रदेशेषु सततविकासः सामाजिकसमावेशनम् सांस्कृतिकसंरक्षणं च नवसंवलनं प्राप्स्यति।
अस्मिन् ऐतिहासिकसहमतिसमारोहे वनवासीकल्याणाश्रमस्य महासचिवः योगेशश्रीधरबापट महोदयः, अंडरट्रायलवेलफेअरअसोसिएशनसंस्थायाः अध्यक्षः दिगंतशर्मा महोदयः, सौभाग्ययोगसाधनाफाउंडेशनसंस्थायाः प्रतिनिधिः प्रत्यूषशर्मा महोदयः, भारतटैक्सप्लेयरप्लेटफार्मफाउंडेशनसंस्थायाः सीए रवींद्रतुराखिया महोदयः, टोरससोशलफाउंडेशनसंस्थायाः विश्वासजाधव महोदयः च उपस्थिताः आसन्। तस्मिन् अवसरॆ प्रतिनिधयः उक्तवन्तः यत् भारतस्य आत्मा जनजातीयसमाजे निहिता अस्ति। एतत् समझौतापत्रं केवलं कागदपत्रं न, अपितु सम्मानस्य सहभागितायाः दीर्घकालिकप्रतिबद्धतायाः च प्रतीकं अस्ति। एषा साझेदारी पञ्चदशवर्षीयदीर्घकालिकयोजनायाः अन्तर्गतं आदिवासीग्रामीणप्रदेशेषु स्थायिपरिवर्तनं साधयितुं लक्ष्यम् अधत्ते। अस्य समझौतापत्रस्य अन्तर्गतं दृढक्रियान्वयनसंरचना निर्मिता अस्ति, या स्थानीयक्रियाकलापान् राष्ट्रियरणनीतिसंसाधनैः सह संयोजयति।
प्रमुखकार्य क्षेत्राणिअस्य सहमतेः अन्तर्गतं सहभागिसंस्थाः आदिवासीछात्रावासनिवासीयशिक्षा, शिक्षा कौशलविकासः, स्वास्थ्यसेवाः यथा चलचिकित्सायानम् चिकित्साशिविराणि दूरचिकित्सासुविधा, ग्रामीणअवसंरचना जलपरियोजनाः, आजीविका स्वरोजगारप्रयत्नाः, संवैधानिकाधिकारसंरक्षणं कानूनीसशक्तिकरणम्, सांस्कृतिकविरासतसंरक्षणम्, सामुदायिकसुरक्षा जागरूकताअभियानानि, निरीक्षणं संसाधनसंग्रहणरणनीतिः इत्यादिषु क्षेत्रेषु कार्यं करिष्यन्ति। अस्य सहकारितामध्ये बहुस्तरीयनिगरानीव्यवस्था अपि भविष्यति, येन परियोजनानां जवाबदेही सुनिश्चिता भविष्यति। अस्यार्थं कॉर्पोरेटसोशलरिस्पॉन्सिबिलिटी, सरकारीअनुदानानि, परोपकारीयोगदानानि, अन्ताराष्ट्रियसंस्थानां सहयोगः च स्वीकरिष्यते।
प्रमुखसहभागिसंस्थाःअस्य समझौतस्य अन्तर्गतं सहभागिनः प्रमुखसंगठनाः सन्ति आदिवासीउत्थानशिक्षास्वास्थ्यसांस्कृतिकसंरक्षणक्षेत्रेषु अग्रणी अखिलभारतीयवनवासीकल्याणाश्रम, आध्यात्मिकसामाजिकविकासे सक्रिय सौभाग्ययोगसाधनाफाउंडेशन, कानूनीसशक्तिकरणपुनर्वासक्षेत्रे कार्यरत अंडरट्रायलवेलफेअरअसोसिएशन, शिक्षास्वास्थ्यग्रामीणविकासे योगदानदायक टोरससोशलफाउंडेशन, वित्तीयसाक्षरता आर्थिकसशक्तिकरणक्षेत्रे सक्रिय भारतटैलेंटशेयरवेलफेयरप्लेटफॉर्म इति।-------------------------
हिन्दुस्थान समाचार