Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 21 फरवरीमासः (हि.स.)।
दिल्ली-नगरे आयोजिते एआई-शिखर-सम्मेलने अवसरे भारतीय युवा कांग्रेस कार्यकर्तृभिः कृतं विरोध-प्रदर्शनं अश्विनी वैष्णव “लज्जास्पदम्” इति अभिहितवान्।
इलेक्ट्रॉनिक्स-तथा-सूचनाप्रौद्योगिकी-मन्त्री अश्विनीवैष्णवः शनिवासरे सञ्चारमाध्यम-प्रतिनिधीन् सम्बोध्य उक्तवान् यत् योजनायाः कालखण्डे ह्यः (शुक्रवासरे) युवा-कांग्रेस-कार्यकर्तृभिः कृतं प्रदर्शनं नितराम् अवमानजनकम् आसीत्। यदा समग्रं विश्वं भारतस्य प्रगतौ प्रौद्योगिकी-क्षेत्रे च विश्वासं प्रकटयति, तादृशे समये राष्ट्रस्य छविं हानिं नेतुं यत्नः अत्यन्तं दुर्भाग्यपूर्णः अस्ति।
तेन उक्तं यत् तेषां कांग्रेस-पक्षस्य राजनीति युवाविरोधिनी अस्ति, तथा ते देशे आगच्छन्तीं नवीन-प्रौद्योगिकीं नवान् प्रयत्नांश्च अवरुद्धुं प्रयतन्ते।
उल्लेखनीयं यत् एआई-शिखर-सम्मेलनस्य अवसरि युवा-कांग्रेस-कार्यकर्तारः केन्द्रीय-सरकारस्य विरुद्धं प्रदर्शनम् अकुर्वन्। कार्यकर्तारः स्वीय-टी-शर्ट-उत्सृज्य नरेन्द्र मोदी विरुद्धं नारान् अक्रोशन्। अनन्तरं कांग्रेस-कार्यकर्तारः अधिकारिभिः निरुद्धाः।
---------------
हिन्दुस्थान समाचार