सीआरपीएफ स्थापना दिवस समारोहे सम्मेलिष्यति अमित शाहः, असम बटालियन मुख्यालयस्य करिष्यति शिलान्यासम्
गुवाहाटी, 21 फरवरीमासः(हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः स्वस्य द्विदिवसीयस्य असमराज्यदौरे द्वितीये दिने शनिवासरे प्रातः ११ वादने केन्द्रीयारक्षितपुलिसबलस्य सप्ताशीतितमस्य स्थापनादिवससमारोहे सहभागं करिष्यति। कार्यक्रमानुसारं गृहमन्त्री केन्द्
भारत-बांग्लादेश सीमा पर कछार जिले में शुक्रवार को आयोजित कार्यक्रम को संबोधित करते हुए केंद्रीय गृह मंत्री अमित शाह। Amit Shah


गुवाहाटी, 21 फरवरीमासः(हि.स.)।

केन्द्रीयगृहमन्त्री अमितशाहः स्वस्य द्विदिवसीयस्य असमराज्यदौरे द्वितीये दिने शनिवासरे प्रातः ११ वादने केन्द्रीयारक्षितपुलिसबलस्य सप्ताशीतितमस्य स्थापनादिवससमारोहे सहभागं करिष्यति।

कार्यक्रमानुसारं गृहमन्त्री केन्द्रीयारक्षितपुलिसबलस्य स्थापनादिवसे आयोजिते स्मृतिसमारोहे अपि सहभागं करिष्यति। केन्द्रीयारक्षितपुलिसबलं देशस्य महत्तमेषु अर्धसैनिकबलिषु अन्यतमं अस्ति तथा आन्तरिकसुरक्षायां महत्वपूर्णां भूमिकां निर्वहति।

अपराह्णे २ वादनत्रिंशदधिके गृहमन्त्री कछारजिलायां दशम्याः असमबटालियनस्य मुख्यालयस्य शिलान्यासं करिष्यति। अस्य परियोजनायाः उद्देश्यं क्षेत्रे सुरक्षा संरचनायाः सुदृढीकरणं तथा परिचालनक्षमतायाः वर्धनं च अस्ति।

उभयोः कार्यक्रमयोः वरिष्ठाधिकारीणां तथा सुरक्षाबलस्य जवानानां उपस्थितिः सम्भाव्यते।

------------

हिन्दुस्थान समाचार