Enter your Email Address to subscribe to our newsletters

अयोध्या, 21 फ़रवरीमासः (हि.स.)। भारतभ्रमणे आगतः डॉ. भरत जगदेवश्शनिवासरे अयोध्या नगरीम् आगत्य श्रीराम जन्मभूमि मध्ये रामललायाः दर्शनपूजनं कृतवान्।
दर्शनानन्तरं सः तीर्थक्षेत्रस्य महासचिवेन चम्पतरायेन सह श्रीरामजन्मभूमि परिसरस्य भ्रमणं कृत्वा मन्दिरनिर्माणस्य भव्यतां निरीक्षितवान्। सः निर्माणस्य भव्यतां निहृत्य तस्य दिव्यतां च आत्मसात् अकरोत्। महासचिवेन तस्मै दीर्घसंघर्षस्य, आन्दोलनस्य, न्यायालयीयप्रक्रियायाः, निर्माणसम्बद्धावश्यकविवरणानां च सम्यक् सूचना प्रदत्ता।
भारतीयमूलस्य डॉ. जगदेवस्य पूर्वजाः अमेठी जिला अन्तर्गतं पूरे ठाकुरैन ग्रामं सम्बद्धाः आसन्, यत् अयोध्यायाः समीपे वर्तते। उपराष्ट्रपतिः डॉ. भरत जगदेव अधुना भारतस्य आधिकारिके भ्रमणे उपस्थितः अस्ति। तेन नई दिल्ली नगरे आयोजिते “इण्डिया एआइ इम्पैक्ट समिट 2026” नाम्नि सम्मेलन अपि सहभागिता कृता।
दर्शनपूजनानन्तरं राममन्दिरपरिसरात् तस्य वाहनश्रेणी महर्षि वाल्मीकि एयरपोर्ट प्रति प्रस्थितवती। तस्मात् विमानतलात् सः पुनः गुयाना देशं प्रति प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार