एआई शिखर सम्मेलने कांग्रेसदलस्य प्रदर्शनं राष्ट्रस्य विरुद्धः अपराधः भाजपादलम्
नवदिल्ली, 21 फरवरीमासः (हि.स.)। भारतीयजनतादलेन भारतमण्डपे आयोजिते एआई शिखर सम्मेलनस्य अवसरे भारतीय युवा कांग्रेस कार्यकर्तृभिः कृतं प्रदर्शनं राष्ट्रविरुद्धं अपराध इति अभिहितम्। भाजपया उक्तं यत् नरेन्द्र मोदी इत्यस्य विरोधं कुर्वन्ती कांग्रेस अधुना
केन्द्रीय मंत्री किरेन रिजिजू


नवदिल्ली, 21 फरवरीमासः (हि.स.)। भारतीयजनतादलेन भारतमण्डपे आयोजिते एआई शिखर सम्मेलनस्य अवसरे भारतीय युवा कांग्रेस कार्यकर्तृभिः कृतं प्रदर्शनं राष्ट्रविरुद्धं अपराध इति अभिहितम्। भाजपया उक्तं यत् नरेन्द्र मोदी इत्यस्य विरोधं कुर्वन्ती कांग्रेस अधुना राष्ट्रविरोधिनी जाता अस्ति।

संसदीयकार्यमन्त्रिणा तथा अल्पसंख्यककार्यमन्त्रिणा किरण रिजिजू शनिवासरे भाजपा मुख्यालये पत्रकारसम्मेलने उक्तम्—“कांग्रेसद्वारा कृतं एतत् प्रदर्शनं निन्दनीयम्। एषा केवलं त्रुटिः न, अपितु राष्ट्रविरुद्धः अपराधः अस्ति। क्षमायाचनां कर्तुं स्थानं किञ्चित् कांग्रेसनेतारः एतत् समর্থयन्तः ‘युवानाम् आक्रोशः’ इति वदन्ति। ते विश्वस्य सम्मुखे भारतं कलुषितुं प्रयतन्ते।”

तेन उक्तं यत् यदि कांग्रेस भाजपायाः आलोचनां करोति तर्हि तत्र कापि आपत्तिः नास्ति, किन्तु नरेन्द्र मोदी नेतृत्वे यदा विश्वं भारतस्य प्रगतिं प्रशंसति तदा तस्य स्वीकृतिः अपेक्षिता। अपि च इमैनुएल मैक्रों अपि उक्तवान् यत् दशकपूर्वं डिजिटल-वाणिज्यं न्यूनम् आसीत्, अधुना तु गलिमोहल्लेषु अपि विक्रेतारः यूपीआई-प्रणालीं उपयुञ्जते।

रिजिजू उक्तवान् यत् राहुल गांधी भारतस्य एतां सिद्धिं स्वीकर्तुं न शक्नोति, सततं देशस्य अपमानं करोति च। तेन उक्तं यत् कांग्रेसस्य केचन नेतारः राहुलगान्धीं बोधितुं प्रयतन्ते, किन्तु सः कदा विवेकपूर्वकं व्यवहरिष्यति इति न ज्ञायते। युवा कांग्रेसस्य अस्य प्रदर्शनस्य विरोधं केवलं भाजपया न, अपितु देशवासिभिः अपि क्रियते।

तेन उक्तं यत् एआई शिखर सम्मेलनं न केवलं भाजपाया: कार्यक्रमः, अपितु राष्ट्रस्य गौरवस्य विषयः अस्ति। राष्ट्रहितस्य विषयेषु राजनीति न कर्तव्या। निर्वाचनपराजयस्य निराशया कांग्रेस अधुना राष्ट्रविरुद्धं आचरणं करोति इति आरोपितम्।

अन्ते, केन्द्रीयमन्त्री रिजिजूः नरेन्द्र मोदिने एतादृशस्य भव्यस्य एआई शिखर सम्मेलनस्य आयोजनार्थं अभिनन्दनं दत्तवान्, यत् समग्रविश्वेन अपि प्रशंसितम्।

------------

हिन्दुस्थान समाचार