Enter your Email Address to subscribe to our newsletters

पाटनानगरम्, २१ फरवरीमासः (हि.स.)। नीतीशकुमार:, बिहारराज्यस्य मुख्यमन्त्री, शनिवासरे पाटनास्थिते इंदिरागांधी-आयुर्विज्ञानसंस्थाने (आईजीआईएमएस) १२शतं शय्यायुक्तं नवीनं चिकित्सालयं निरीक्षितवान्। तस्मिन् अवसरे सः अधिकारिभ्यः निर्माणकर्मण: प्रगतिं अवगतवान्, तत् शीघ्रतया पूर्णं कर्तुम् आदेशं दत्तवान्।
निरीक्षणकाले अधिकारिभ्यः मुख्यमन्त्रीं उक्तवन्त: यत् चिकित्सालयस्य निर्माणकर्म तीव्रगत्या प्रवर्तते, शीघ्रं तत् पूर्णं भविष्यति। मुख्यमन्त्री उक्तवान् यत् अस्य अत्याधुनिक–मल्टि–सुपर–स्पेशियलिटी–चिकित्सालयस्य निर्माणात् युग्णेभ्यः उत्तमा उपचारसुविधा लभ्यते राज्यस्य स्वास्थ्यसेवाः च अधिकं दृढाः भविष्यन्ति।
मुख्यमन्त्री उक्तवान् यत् २४ नवम्बरमासे २००५ तमे वर्षे राज्ये तेषां शासनस्य स्थापनातः सर्ववर्गीयजनानां उत्थानाय सर्वक्षेत्रे विकासाय च सततं कर्म कृतम्। सः विशेषतः स्वास्थ्यक्षेत्रे जातानि संशोधनानि निर्दिशन् उक्तवान् यत् राज्ये स्वास्थ्यसौवियानां संशोधनाय अनेके महत्वपूर्णाः प्रयासाः क्रियन्ते।
मुख्यमन्त्री उक्तवान् यत् पटना-चिकित्सा–महाविद्यालय: एवम् चिकित्सालयं ५४०० शैय्यानि धारयितुं निर्मीयते, एवं राज्यस्य पञ्च पुरातन–चिकित्सालयमहाविद्यालयानां क्षमतां २५०० शैय्यानि कृत्वा वृध्दिं दीयते। आईजीआईएमएस अपि ३००० शैय्यानि धारयितुं निर्मीयते।
सः उक्तवान् यत् एतेषां प्रयासानां परिणामतः बिहारस्य स्वास्थ्यव्यवस्था अत्यन्तं दृढा जाताऽस्ति, राज्यजनेभ्य: उत्तमा उन्नता च स्वास्थ्यसुविधा: लभन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता