पटनायां ब्रिटेनस्य एआई मंत्री कनिष्क नारायणः संजय झा इत्यनेन सह मिलितः, बिहारस्य तकनीकीप्रगतिविषयिणी चर्चा
पटना, 21 फरवरीमासः (हि.स.)। मुजफ्फरपुर निवासी तथा यूनाइटेड किंगडम इत्यस्य कृत्रिमबुद्धिमत्ता-मन्त्री कनिष्क नारायण शनिवासरे जनता दल यूनाइटेड इत्यस्य राष्ट्रीयकार्यकारी-अध्यक्षं संजय कुमार झा पटना-स्थिते तस्य निवासे समागत्य अभ्यभाषत। अस्मिन् अवसरि ब
पटना में इंग्लैंड के एआई मंत्री कनिष्क नारायण जदयू के कार्यकारी अध्यक्ष से मुलाकात के दौरान


पटना, 21 फरवरीमासः (हि.स.)। मुजफ्फरपुर निवासी तथा यूनाइटेड किंगडम इत्यस्य कृत्रिमबुद्धिमत्ता-मन्त्री कनिष्क नारायण शनिवासरे जनता दल यूनाइटेड इत्यस्य राष्ट्रीयकार्यकारी-अध्यक्षं संजय कुमार झा पटना-स्थिते तस्य निवासे समागत्य अभ्यभाषत। अस्मिन् अवसरि बिहारस्य प्रौद्योगिकी-विकासः, युवाशक्तेः भूमिका, कृत्रिमबुद्धिमत्तायाः सम्भावित-प्रयोगाः इत्यादिषु विषयेषु चर्चा अभवत्।

संजयकुमारझा उक्तवान् यत् अद्य विश्वं शीघ्रं वैश्विकीभवति, बिहारराज्यम् अपि प्रौद्योगिकी-क्षेत्रे प्रगतिपथम् अनुगच्छति। तेन उक्तं यत् राज्यस्य युवपीढ्यां महान् सामर्थ्यं विद्यते, तथा नीतीश कुमार नेतृत्वे विकासस्य दृढः आधारः निर्मितः अस्ति।

तेन निरूपितं यत् कृत्रिमबुद्धिमत्ता-प्रौद्योगिकी स्वास्थ्य-क्षेत्रे, कृषिक्षेत्रे, सेवाक्षेत्रे च उपयोक्तुं शक्यते। बिहारः कृषिप्रधान-राज्यम् अस्ति; अतः कृत्रिमबुद्धिमत्तायाः माध्यमेन कृष्योत्पादने सेवासु च सुधारः सम्भवः। आगामिषु कालेषु बिहारः प्रौद्योगिकी-विकासयोः अन्यराज्यानां समकक्षं स्थितुं समर्थः भविष्यति इति विश्वासः व्यक्तः।

अस्मिन् अवसरि कनिष्कनारायणः द्वाविंशतिवर्षाधिकानन्तरं बिहारं प्रत्यागत्य हर्षं व्यक्तवान् तथा राज्ये जातपरिवर्तनस्य प्रशंसां कृतवान्। सः उक्तवान् यत् तस्य जन्म बिहारराज्ये अभवत्, दीर्घकालानन्तरं प्रत्यागत्य राज्यस्य प्रगतिं दृष्ट्वा गौरवम् अनुभूयते। यथा ब्रिटने कृत्रिमबुद्धिमत्ता-क्षेत्रे शीघ्रं कार्यं प्रवर्तते, तथैव बिहारः अपि प्रौद्योगिकी-भविष्यं प्रति अग्रसरति इति सः अवदत्।

उल्लेखनीयम् यत् कनिष्कनारायणस्य जन्म मुजफ्फरपुर नगरे अभवत्। बाल्यावस्थायां सः स्वपरिवारसमेतः ब्रिटनदेशं गतवान्। अधुना सः यूनाइटेड किंगडमदेशस्य कृत्रिमबुद्धिमत्ता-मन्त्री अस्ति तथा त्रयोविंशतिवर्षानन्तरं बिहारं प्रत्यागतः। अस्मिन् कालखण्डे सः स्वगृहजिलं मुजफ्फरपुरम् अपि गमिष्यति।-------------

हिन्दुस्थान समाचार