केंद्रं व्यापार सूचकांकस्य आधार वर्षं 2022-23वित्तवर्षे अद्यतनीककृतवत्
नव दिल्‍ली, 21 फरवरीमासः (हि.स)। केन्द्रीयसर्वकारेण भारतस्य व्यापारसूचकाङ्कानां आधारवर्षे परिवर्तनं कृतम्। पूर्वं वित्तवर्षं २०१२–१३ आधारवर्षत्वेन आसीत्, अधुना तत् परिवर्त्य वित्तवर्षं २०२२–२३ आधारवर्षत्वेन स्वीकृतम्। एषः निर्णयः देशस्य परिवर्तमा
ट्रेड के लोगो का प्रतीकात्‍मक चित्र


नव दिल्‍ली, 21 फरवरीमासः (हि.स)।

केन्द्रीयसर्वकारेण भारतस्य व्यापारसूचकाङ्कानां आधारवर्षे परिवर्तनं कृतम्। पूर्वं वित्तवर्षं २०१२–१३ आधारवर्षत्वेन आसीत्, अधुना तत् परिवर्त्य वित्तवर्षं २०२२–२३ आधारवर्षत्वेन स्वीकृतम्। एषः निर्णयः देशस्य परिवर्तमानव्यापारसंरचनां तथा वैश्विकप्रवृत्तीनां यथार्थप्रतिबिम्बनार्थं कृतः।

वाणिज्यमन्त्रालयेन उक्तं यत् अर्थव्यवस्थायां जातेषु संरचनात्मकपरिवर्तनेषु, व्यापारस्य परिवर्तमानप्रक्रियासु, अद्यतनार्थिकसूचकाङ्कैः सह सम्यक्तालमेलस्थापनार्थं च एतत् पादं उपन्यस्तम्। अस्य परिवर्तनस्य फलस्वरूपं व्यापारसांख्यिकीयदत्तांशानां प्रासंगिकता विश्वसनीयता च वर्धिष्यते, ये नीति-निर्मातृभ्यः अनुसन्धानकर्तृभ्यश्च अधिकोपयोगिनः भविष्यन्ति।

एते सूचकाङ्काः वाणिज्यमन्त्रालयस्य अधीनस्थेन वाणिज्यिकगुप्तचर-सांख्यिकी-महानिदेशालयेन (डीजीसीआई-एण्ड-एस) निर्मीयन्ते प्रकाशिताश्च। एते देशस्य बाह्यव्यापारक्षेत्रे मूल्यपरिवर्तनानां अवगमने, राष्ट्रियलेखासङ्कलने, व्यापारशर्तानां मूल्याङ्कने च महत्वपूर्णाः संकेतकाः मन्यन्ते।

मन्त्रालयेन सूचितं यत् आधारवर्षपरिवर्तनं अर्थव्यवस्थायाः संरचनात्मकपरिवर्तनान्, वस्तूनां परिवर्तमानसंरचनां, वैश्विकपूर्तिशृङ्खलायाः परिवर्तनांश्च अनुसृत्य दत्तांशानां समायोजनं करोति। अद्यतनश्रृङ्खलायां २०२२–२३ वर्षं नवमूलाधारवर्षत्वेन स्वीकृतम्, यत्र (२०२२–२३ = १००) इति निर्दिष्टम्। एषः उपक्रमः व्यापारस्य नूतनप्रवृत्तिभिः सह वर्तमानार्थिकसूचकाङ्कानां उत्तमतया सामञ्जस्यस्थापनार्थं कृतः।

---------------

हिन्दुस्थान समाचार