Enter your Email Address to subscribe to our newsletters


अहमदाबादम्, 21 फरवरीमासः (हि.स.)। भारतीयजनतादलस्य राष्ट्रियाध्यक्षः नितिननवीनः शनिवासरे प्रातःकाले अहमदाबादनगरस्य प्रसिद्धे साबरमती रिवरफ्रंट स्थले प्रातःसञ्चारं कृतवान्। तत्र सः युवभिः सह चायापानं कृत्वा संवादम् अपि अकरोत्।
भाजपाध्यक्षः नगरस्य प्रतिष्ठितम् अटलसेतुम् अपि अवलोकितवान्। अस्मिन् अवसरे कर्णावती महानगर भाजपाध्यक्षः प्रेरकशाहः स्थानीयविधायकाः अन्ये च पक्षपदाधिकारीणः उपस्थिताः आसन्।
गुजरातभाजपया रिवरफ्रंटदौरेण सम्बद्धाः चित्राणि सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशितानि। तत्र लिखितम् यत् साबरमती रिवरफ्रंट संकल्पात् सिद्धेः प्रतीकः अस्ति। पक्षेण उक्तम् यत् राष्ट्रियाध्यक्षः स्वस्य गुजरातदौरे द्वितीयदिने अहमदाबादे प्रदेशाध्यक्षेन जगदीशविश्वकर्मणा सह प्रातःसञ्चारं कृतवान्। तस्मिन् समये सः चायायाः आस्वादनं कृत्वा युवभिः सह संवादम् अकरोत्।
पक्षेण अपि उक्तम् यत् साबरमती रिवरफ्रंट अद्य अहमदाबादनगरस्य परिचायकः अभवत्। पूर्वम् एतत् स्थलम् मलिनतया कचरैः च पूर्णम् आसीत्, किन्तु प्रधानमन्त्रिणः नरेन्द्रमोदिना नेतृत्वेन दूरदर्शितया च अत्र देशस्य प्रथमः आधुनिकः रिवरफ्रंट विकसितः, येन नगराय वैश्विकीया ख्यातिः प्राप्ता। अधुना साबरमती रिवरफ्रंट जनानाम् आकर्षणकेन्द्रं जातम्, यत्र प्रतिदिनं बहवः जनाः प्रातःसञ्चाराय धावनाय सायकिलयानाय योगाभ्यासाय व्यायामाय च आगच्छन्ति। परिवाराः अपि स्वबालकैः सह अत्र समयं यापयन्ति।
अटलसेतु अपि अहमदाबादस्य प्रमुखपर्यटनस्थलं जातम्, यत्र बहवः पर्यटकाः आगच्छन्ति।
भाजपाध्यक्षः शनिवासरे अहमदाबादस्थितं नगरदेवी श्रीभद्रकालीमातामन्दिरम् अपि गतवान्, यत्र सः मातुः दर्शनं कृत्वा पूजाम् अकरोत्। सः एक्स इत्यत्र अलिखत् यत् अद्य अहमदाबादे नगरदेव्याः श्रीभद्रकालीमातुः मन्दिरे दर्शनपूजनं कृत्वा राज्यस्य राष्ट्रस्य च समृद्धये शान्तये जनकल्याणाय च प्रार्थना कृता। अहमदाबादस्य नगरदेवीरूपेण पूज्यमानम् एतत् धाम प्राचीनकर्णावत्याः स्थापनेकालात् आरभ्य श्रद्धाकेन्द्रं वर्तते तथा गुजरातस्य समृद्धसांस्कृतिकपरम्परायाः गौरवपूर्णं प्रतीकम् अस्ति।नितिननवीनः शुक्रवासरे गुजरातदौरे आगत्य अनेककार्यक्रमेषु सहभागितां कृतवान्।
---------------
हिन्दुस्थान समाचार