सेवायाः, त्यागस्य राष्ट्रभक्तेः च प्रेरणास्रोतः स्वामी श्रद्धानंदः -राज्यपालः रमेन डेका
रायगढम् , 21 फ़रवरीमासः(हि.स.)।छत्तीसगढराज्यस्य रायगढ़-जिलान्तर्गतस्य पुसौर-विकासखण्डस्य तुरङ्गा-ग्रामस्थिते आर्य-गुरुकुल-आश्रमे स्वामी श्रद्धानंदस्य पावन-बलिदानस्य शताब्दी-वर्ष-उपलक्ष्ये ‘स्वामी-श्रद्धानन्द-बलिदान-महामहोत्सवः तथा राष्ट्र-रक्षा-महाय
राज्यपाल आर्य गुरुकुल आश्रम तुरंगा में


रायगढम् , 21 फ़रवरीमासः(हि.स.)।छत्तीसगढराज्यस्य रायगढ़-जिलान्तर्गतस्य पुसौर-विकासखण्डस्य तुरङ्गा-ग्रामस्थिते आर्य-गुरुकुल-आश्रमे स्वामी श्रद्धानंदस्य पावन-बलिदानस्य शताब्दी-वर्ष-उपलक्ष्ये ‘स्वामी-श्रद्धानन्द-बलिदान-महामहोत्सवः तथा राष्ट्र-रक्षा-महायज्ञः’ इत्यस्य भव्य-आयोजनं सम्पन्नम्।

कार्यक्रमस्य शुभारम्भः राष्ट्रगीत-राष्ट्रगानयोः तथा छत्तीसगढ-मातरः वन्दनया ‘अरपा पैरी के धार’ इति गीतस्य गायनेन अभवत्। अस्मिन् अवसरे मुख्य-अतिथिरूपेण प्रदेशस्य राज्यपालः रमेन डेका उपस्थितः आसीत्। तेन यज्ञकुण्डस्य दर्शनं कृत्वा प्रदेशस्य सुख-समृद्धेः खुशहालयाश्च कामना कृता।

राज्यपालः श्री-डेका स्वीय-संबोधने उक्तवान् यत् स्वामी-श्रद्धानन्दः महान् समाज-सुधारकः, प्रखरः शिक्षाविद् तथा वीरः स्वतन्त्रता-सेनानी आसीत्। तेन भारतीय-समाजे सकारात्मक-परिवर्तनाय स्वस्य समग्र-जीवनं समर्पितम्। सः आर्य समाज-संस्थायाः प्रमुख-स्तम्भः आसीत् तथा स्वामी दयानंद सरस्वती-महर्षेः विचारान् जन-जनं प्रति प्रसारितवान्।

राज्यपालः अवदत् यत् संवत्सरे 1902 तमे स्थापितस्य गुरुकुल कांगड़ी माध्यमेन स्वामिना प्राचीन-भारतीय-शिक्षा-पद्धतेः आधुनिक-विषयैः सह समन्वयः प्रदर्शितः, यः अद्यापि प्रासंगिकः अस्ति।

तेन उक्तं यत् स्वामी-श्रद्धानन्दः अस्पृश्यता-जातिवाद-सामाजिक-भेदभावादि-कुरीतीनां विरुद्धं संघर्षं कृतवान्। सः ‘शुद्धि-आन्दोलनस्य’ प्रवर्तकः आसीत्, यस्य उद्देश्यं स्व-मूल-सांस्कृतिक-परिचयात् दूरगत-जनान् पुनः तया सह संयोजयितुम् आसीत्।

अधुना शिक्षापद्धत्यां नैतिक-चारित्रिक-मूल्यानां न्यूनतां प्रति चिन्ता व्यक्तीकृता। युवजनान् प्रति आह्वानं कृतम् यत् जीवनस्य लक्ष्यं केवलं करियर-निर्माणं न भवेत्, अपि तु समाज-सेवा आत्म-सन्तोषश्च भवेताम्। जलवायु-परिवर्तनादि वैश्विक-चुनौतिषु प्रकाशं कृत्वा प्रकृत्या सह संतुलन-पालनस्य संदेशः अपि दत्तः।

कार्यक्रमे राज्यपालेन संस्थानस्य ‘अन्नपूर्णा-भवन’-निर्माणार्थं भूमि-पूजनं कृतम्। तथा श्रीमती मल्लिका-चतुर्भुजा नाम्नी महिले संस्थान-विकासाय दश-एकड-भूमि-दानस्य कृते विशेषतः सम्मानिता।

लोकसभा-सांसदः राधेश्याम-राठिया उक्तवान् यत् राज्यपालस्य आगमनं क्षेत्राय प्रेरणादायकम् अस्ति तथा स्वामी-श्रद्धानन्दस्य शहादत् राष्ट्रीय-एकता-सांस्कृतिक-संरक्षणयोः संदेशं ददाति। प्रबल-प्रताप-सिंह-जूदेव महोदयेन उक्तं यत् स्वामी-श्रद्धानन्दः धर्मान्तरण-प्रयत्नानां विरोधं कृत्वा अनेकान् जनान् सनातन-परम्परया सह पुनः संयोजितवान्। कपिलदेव-शास्त्री महोदयेन उत्तराखण्डे सञ्चालितस्य शुद्धि-आन्दोलनस्य ऐतिहासिक-प्रसंगाः विवृता।

अन्ते मुख्याः अतिथयः शाल-श्रीफल-स्वामी-चित्रेण सम्मानिताः। कार्यक्रमस्य संचालनं आचार्य-राकेश-कुमारः कृतवान् तथा डॉ राम-कुमार-पटेलः आभार-प्रदर्शनं कृतवान्। अस्मिन् अवसरे आर्य-गुरुकुल-आश्रमस्य सदस्याः, स्वामिनःश्रद्धानन्दस्य अनुयायिनः तथा बहवः श्रद्धालवः उपस्थिताः आसन्।

हिन्दुस्थान समाचार