Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 21 फरवरीमासः (हि.स.)।
भारतब्राजीलदेशौ आगामिषु पञ्चवर्षेषु द्विपक्षीयवाणिज्यं विंशतिअर्बुदडॉलरात् अधिकं वर्धयितुं महत्त्वाकाङ्क्षितं लक्ष्यं निर्धारितवन्तौ। रक्षण ऊर्जा डिजिटलप्रौद्योगिकी महत्त्वपूर्णखनिज स्वास्थ्य इत्यादिषु दशसु प्रमुखक्षेत्रेषु सहयोगं दृढीकर्तुं च सहमतौ अभवताम्। उभौ देशौ संयुक्तराष्ट्रसुरक्षापरिषदः शीघ्रसुधारस्य आवश्यकतां तथा आतङ्कवादविरुद्धे कठोरवैश्विककार्यवाह्याः अपेक्षां अपि प्रतिपादितवन्तौ। ब्राजीलदेशेन भारतीयवीजाधारकाणां कृते व्यापारवीजायाः अवधिः दशवर्षपर्यन्तं वर्धिता।
प्रधानमन्त्री नरेन्द्रमोदी तथा ब्राजीलदेशस्य राष्ट्रपति लुइज़ इनासियो लूला दा सिल्वा इत्येतयोः मध्ये शनिवासरे हैदराबादहाउस् नाम्नि स्थले प्रतिनिधिमण्डलस्तरीया वार्ता अभवत्। अनन्तरं प्रकाशिते संयुक्तवक्तव्ये एषा सूचना प्रदत्ता। वार्तायां वाणिज्य ऊर्जा रक्षण कृषि जलवायुक्रिया कृत्रिमबुद्धिमत्ता सेमीकण्डक्टर महत्त्वपूर्णखनिज वैश्विकदक्षिण इत्यादिषु विषयेषु विस्तृतचर्चा अभवत्।
विदेशमन्त्रालयस्य प्रवक्त्रा उक्तं यत् उभौ नेतारौ समावेशिन्याः बहुध्रुवीयविश्वव्यवस्थायाः समर्थनं पुनरुक्तवन्तौ। संयुक्तराष्ट्रसंघे विशेषतः सुरक्षापरिषदि त्वरितसुधारस्य आह्वानम् अपि कृतवन्तौ। आतङ्कवादविरुद्धे दृढवैश्विकसङ्घटनाय स्वप्रतिबद्धतां व्यक्तवन्तौ।
उभाभ्यां स्पष्टं कृतं यत् आगामिषु पञ्चवर्षेषु द्विपक्षीयवाणिज्यं विंशतिअर्बुदडॉलरात् अधिकं नेतुं प्रतिबद्धौ स्तः। प्रधानमन्त्री मोदी उक्तवान् यत् उभयोः देशयोः मध्ये वाणिज्यं केवलं सङ्ख्यानां विषयः नास्ति अपि तु पारस्परिकविश्वासस्य सुदृढरणनीतिकसाझेदार्यस्य च प्रतीकः अस्ति। ब्राजीलदेशः लाटिनअमेरिकाखण्डे भारतस्य महान् वाणिज्यसहभागी अस्ति। भारतमर्कोसुरवाणिज्यसमझौते विस्तारः आर्थिकसम्बन्धान् अधिकं प्रेरयिष्यति।
बैठकायां इस्पातसम्बद्धखनिजपदार्थानां आपूर्तिशृङ्खलां सुरक्षितां सुदृढां च कर्तुं डिजिटलसहयोगाय कार्ययोजना निर्मातुं चलचित्रमाध्यमक्षेत्रे संयुक्तपरियोजनाः प्रवर्धयितुं पारम्परिकज्ञानस्य आदानप्रदानं च कर्तुं सहमतिः अभवत्। स्वास्थ्य एमएसएमई उद्यमिता जनसंचार महत्त्वपूर्णदुर्लभखनिज ऊर्जा संक्रमण औद्योगिकसाझेदारी इत्यादिषु क्षेत्रेषु दशबिन्दुषु अपि समझ विकसिताभवत्। ब्राजीलदेशेन भारतीयवीजाधारकाणां कृते व्यापारवीजायाः अवधि दशवर्षपर्यन्तं वर्धिता इति घोषितम्।
संयुक्तवक्तव्ये प्रधानमन्त्री मोदी प्रौद्योगिकी नवोन्मेषं च भाविसाझेदार्यस्य आधाररूपेण निर्दिष्टवान्। कृत्रिमबुद्धिमत्ता सुपरकम्प्यूटिंग सेमीकण्डक्टर ब्लॉकचेन इत्यादिक्षेत्रेषु सहयोगः प्राधान्येन स्वीकरिष्यते। ब्राजीलदेशे डिजिटलपब्लिकइन्फ्रास्ट्रक्चर कृते सेन्टरऑफएक्सीलेंस स्थापना क्रियमाणा अस्ति। प्रौद्योगिकी समावेशिनी भवेत् विकासस्य सेतुरूपेण कार्यं कुर्यात् इति उभौ सहमतौ।
ऊर्जाक्षेत्रे हाइड्रोकार्बन सह नवीकरणीयऊर्जा एथेनॉलमिश्रण सस्टेनेबलएविएशनफ्यूल इत्यादिषु सहयोगविस्तारः भविष्यति। हरितविकासे उभयोः प्रतिबद्धता समानास्ति। महत्त्वपूर्णखनिज दुर्लभपदार्थसम्बद्धसमझौते सुदृढआपूर्तिशृङ्खलानिर्माणस्य दिशि महत्त्वपूर्णपदमिति निर्दिष्टम्।
कृषिक्षेत्रे जलवायुसहिष्णुकृषि प्रिसीजनफार्मिंग जैवउर्वरक इत्यादिषु सहयोगवृद्धिः स्वीकृता। स्वास्थ्यऔषधिक्षेत्रे भारततः ब्राजीलदेशं प्रति सुलभगुणवत्तायुक्तौषधीनां आपूर्तिवृद्धिः पारम्परिकचिकित्साक्षेत्रे सहयोगविस्तारश्च भविष्यति।
मोदी उक्तवान् यत् आतङ्कवादः तस्य समर्थकाः च समस्तमानवजातेः शत्रवः सन्ति। अस्य विरुद्धे एकीकृतवैश्विककार्यवाही अनिवार्या। वर्तमानवैश्विकचुनौतिभ्यः समाधानाय अन्तर्राष्ट्रीयसंस्थानां सुधारः अपरिहार्यः संवादः कूटनीतिश्च समाधानमार्गः इति प्रतिपादितम्।
राष्ट्रपति लूला दा सिल्वा संयुक्तपत्रकारसम्मेलने उक्तवान् यत् विंशतिवर्षप्राचीना रणनीतिकसाझेदारी अधुना क्रियान्वयनस्य नवचरणं प्राप्नोति। रक्षणसुरक्षा खाद्यपोषणसुरक्षा ऊर्जा संक्रमण डिजिटलपरिवर्तन औद्योगिकसाझेदारी इत्यादिषु पञ्चप्राथमिकक्षेत्रेषु पूर्वनिर्धारितकार्यसूची अधुना ठोसस्वरूपेण प्रवर्तते। भारतस्य सूचना प्रौद्योगिकी कृत्रिमबुद्धिमत्ता जैवप्रौद्योगिकी अन्तरिक्षक्षेत्रे प्रगतेः प्रशंसा अपि तेन कृता।
वैश्विकपरिदृश्यं चुनौतीपूर्णम् इति उक्त्वा सः अवदत् यत् भारतब्राजीलदेशौ संयुक्तराष्ट्रसंघे विश्ववाणिज्यसंगठने जी२०मञ्चे च महत्त्वपूर्णस्वरौ स्तः। अधिकन्यायपूर्णप्रतिनिधिकविश्वव्यवस्थायाः समर्थकौ स्तः। सुरक्षापरिषदः शीघ्रसुधारस्य समर्थनं कृत्वा उभौ तस्य स्वाभाविकदावेदारौ इति प्रतिपादितम्। जी४माध्यमेन विस्तारस्य वकालताऽपि पुनरुक्ता।
राष्ट्रपति लूला दा सिल्वा कश्मीरप्रदेशे अभवतां आक्रमणयोः निन्दां कृतवान्। आतङ्कवादस्य कस्यापि धर्मस्य राष्ट्रस्य वा सम्बन्धः नास्ति इति सः अवदत्। दक्षिणअमेरिकाखण्डं शान्तिक्षेत्ररूपेण धारयितुं ब्राजीलदेशस्य प्रतिबद्धता पुनरुक्ता।
उभौ नेतारौ विश्वासं व्यक्तवन्तौ यत् एषा यात्रा भारतब्राजीलरणनीतिकसहकारितां नवोच्चतां नेष्यति तथा वैश्विकदक्षिणस्वरं अधिक्येन सुदृढं करिष्यति।
------------
हिन्दुस्थान समाचार