Enter your Email Address to subscribe to our newsletters


नवदिल्ली, २१ फरवरीमासः (हि.स.)। विदेशमन्त्री डॉ.एस.जयशंकरः भारतस्य राजकीय–यात्रायाम् आगतया ब्राजीलराष्ट्रपतिना लुइज-इनासियो-लूला-दा-सिल्वा तथा विदेशमन्त्रिणा मौरो-विएरा इत्येताभ्यां च सह शनिवासरे साक्षात्कारं कृतवान्।
डॉ.जयशंकरः अस्य समागमस्य विषये एक्स-मध्ये उक्तवान् – “राष्ट्रपति-लूला भारतेन सह स्वस्य रणनैतिक-सहभागितां गभीरतया वर्धयितुं उष्णस्नेहं मार्गदर्शनञ्च दत्तवान्, यत् प्रशंसनीयं अस्ति। अद्य मध्याह्ने प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपति: लूला च मध्ये औपचारिकी द्विपक्षीयसभा भविष्यति, या अस्माकं सम्बन्धे नवीनं ऊर्जा–वेगञ्च प्रदास्यति।”
उल्लेखनीयं यत् भारत–ब्राजीलदेशयोः मध्ये रणनैतिक-सहभागितां नवीनदिशायां प्रेरयितुं, ब्राजीलराष्ट्रपति: महतीं राजकीय–यात्रां कुर्वन्तः भारतदेशम् आगताः सन्ति। अद्यतनं दिनं उभयोः राष्ट्रयोः कूटनीतिक–संबन्धेषु अत्यन्तं महत्वपूर्णं मन्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता