होल्याः अवसरे प्रथमे मार्चमासीये दिनाङ्के भविष्यति हास्यकविसम्मेलनम्
रांची , 21 फरवरीमासः( हि.स.)। कविसम्मेलनायोजनसमित्या होलीउत्सवस्य अवसर उपलक्ष्ये मार्चमासस्य प्रथमे दिने मारवाडीभवने हास्यकविसम्मेलनस्य आयोजनं क्रियते। समितेः संयोजकः पवनशर्मा शनिवासरे अवदत् यत् कविसम्मेलनस्य आयोजनं मारवाडीभवनपरिसरे भविष्यति। स
फाइल फोटो रंग


रांची , 21 फरवरीमासः( हि.स.)।

कविसम्मेलनायोजनसमित्या होलीउत्सवस्य अवसर उपलक्ष्ये मार्चमासस्य प्रथमे दिने मारवाडीभवने हास्यकविसम्मेलनस्य आयोजनं क्रियते।

समितेः संयोजकः पवनशर्मा शनिवासरे अवदत् यत् कविसम्मेलनस्य आयोजनं मारवाडीभवनपरिसरे भविष्यति।

समितेः प्रवक्ता सह कोषाध्यक्षः मनोजबजाज उक्तवान् यत् कविषु दिल्ली नगरस्य सुनीलजोगी, राजस्थानप्रदेशस्य ख्यालीशरण, कोटानगरस्य डा आदित्यजैन, उत्तरप्रदेशस्य डा विष्णुसक्सेना, नागपुरनगरस्य श्रद्धाशौर्य, प्रतापगढस्य पार्थनवीन च सम्मिलिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA