नयाग्रामचिकित्सालये अंग विकृतरुग्णेभ्यो विशेषशल्यचिकित्सा
झाड़ग्रामः, 21 फ़रवरीमासः (हि.स.)। समाजस्य मुख्यधारायां अङ्गविकलाङ्गजनान् पुनः समावेशयितुं नयाग्राम सुपर स्पेशियलिटी चिकित्सालयेन विशेषशल्यचिकित्साअभियानस्य आरम्भः कृतः। अस्य उपक्रमस्य नेतृत्वं वरिष्ठवैद्यः देवाशीष महात करोति। प्राप्तसूचनानुसार
नयाग्राम में विशेष


झाड़ग्रामः, 21 फ़रवरीमासः (हि.स.)।

समाजस्य मुख्यधारायां अङ्गविकलाङ्गजनान् पुनः समावेशयितुं नयाग्राम सुपर स्पेशियलिटी चिकित्सालयेन विशेषशल्यचिकित्साअभियानस्य आरम्भः कृतः। अस्य उपक्रमस्य नेतृत्वं वरिष्ठवैद्यः देवाशीष महात करोति।

प्राप्तसूचनानुसारं बहवः रोगिणः हस्तपादयोः विकृत्या पीडिताः सन्ति, येन ते सामाजिकजीवने पृष्ठतः पतन्ति। अधिकांशाः रोगिणः कुष्ठरोगेण पूर्वं पीडिताः आसन्, यस्य कारणेन तेषाम् अङ्गेषु विकृतिः जाता। शारीरिकतया ते स्वस्थाः सन्ति, किन्तु अङ्गविकृत्या सामाजिकजीवने बाध्यन्ते।

शुक्रवासरे त्रयोदश रोगिणां कृते पुनर्निर्माणात्मकशल्यचिकित्सायाः व्यवस्था कृता। अस्मिन् शल्यकर्मणि दश विशेषज्ञवैद्याः सहभागी अभवन्, येषां नेतृत्वं आर. एन. भट्टाचार्येन कृतम्। शल्यक्रियानन्तरं रोगिणः प्रायः एकमासपर्यन्तं चिकित्सालये स्थित्वा सम्यक् उपचारं प्राप्स्यन्ति।

चिकित्सालयप्रशासनेन सूचितं यत् सफलशल्यक्रियानन्तरं रोगिभ्यः स्वावलम्बनार्थं द्वादशसहस्ररूप्यकाणि प्रदास्यन्ते। एषः उपक्रमः राज्यसर्वकारस्य सहयोगेन अङ्गविकलाङ्गजनान् समाजस्य मुख्यधारायां पुनः स्थापयितुं महत्वपूर्णः प्रयासः अस्ति।

---------------

हिन्दुस्थान समाचार