Enter your Email Address to subscribe to our newsletters

मेदिनीपुरम्, 21 फ़रवरीमासः (हि.स.)।
कोलकाता नगरस्य नरेन्द्रपुर स्थिते नाजिराबाद क्षेत्रे अभवत् भीषणे गोदाम् अग्निकाण्डे मृतानां श्रमिकाणां परिचयः अधुना डीएनए परीक्षणेन क्रमशः ज्ञायते। प्रशासनतः प्रदत्तसूचनानन्तरं बहूनां परिवाराणां सा अन्तिमा आशा अपि निवृत्ता, ये स्वप्रियजनानां जीवितत्वस्य अपेक्षया प्रतीक्षां कुर्वन्तः आसन्।
उल्लेखनीयम् यत् गत २५ जनवरी रात्रौ नाजिराबाद क्षेत्रस्य एकस्मिन् गोदामे जाताग्निदाहे पूर्व मिदनापुर जिला अन्तर्गत २१ श्रमिकाः मृताः। घटनानन्तरं केचन जनाः लुप्ताः आसन्, तेषां बान्धवाः निरन्तरं तेषां अन्वेषणं कुर्वन्तः आसन्। प्रारम्भे परिवारजनानां मनसि आशा आसीत् यत् कदाचित् ते केनचित् चिकित्सालये प्रविष्टाः स्युः अथवा सुरक्षितस्थानं प्राप्तवन्तः स्युः, किन्तु कालेन चिन्ता अधिका अभवत्।
अन्ततः मृतानां सुनिश्चितपरिचयार्थं डीएनए परीक्षणं कृतम्। तामलुक, पांशकुड़ा, मयना, नंदकुमार, सुताहाटा तथा हुतात्ममातंगिनी ब्लॉक क्षेत्रेभ्यः २१ परिवाराणां नमूनानि संगृहीतानि। प्रशासनस्य कथनानुसारं अद्यपर्यन्तं १६ जनानां डीएनए परिणामः सम्यक् मेलितः, यस्य सूचना शुक्रवासरे दूरभाषया परिवाराणां प्रदत्ता। एतां वार्तां श्रुत्वा अनेकगृहेषु शोकवातावरणं व्याप्तम्।
लुप्तश्रमीकाणां बान्धवाः अवदन् यत् ब्लॉक कार्यालयात् दूरभाषेन डीएनए प्रतिवेदनस्य सूचना दत्ता, अनन्तरं प्रक्रियासम्पादनार्थं तान् थाना प्रति आहूतवन्तः। अन्ये केचन परिवाराः अद्यापि प्रतिवेदनस्य प्रतीक्षां कुर्वन्ति, अनिश्चिततायां स्थित्वा स्वप्रियजनवार्तायाः आशां धारयन्ति।
जिलाधिकारी यूनिस ऋषिन इस्माइल अवदत् यत् अस्मिन् अग्निकाण्डे जिल्लायाः २१ जनाः लुप्ताः आसन्, तेषां परिचयार्थं डीएनए परीक्षणं कृतम्। अद्यपर्यन्तं १६ जनानां परिणामः सम्यक् प्राप्तः, अवशिष्टानां परिणामप्रक्रिया अद्यापि प्रचलति।
पुलिससूत्राणां कथनानुसारं येषां मृतदेहानां परिचयः सुनिश्चितः जातः, तेषां अवशेषाः विधिसम्मतप्रक्रियां सम्पन्न्य परिवारजनानां समर्पिताः भविष्यन्ति। प्रशासनस्य मतं यत् अन्येषां परिवाराणां कृते अपि शीघ्रमेव प्रतिवेदनं प्रदातुं परीक्षणकार्यं तीव्रतया क्रियते।
---------------
हिन्दुस्थान समाचार