Enter your Email Address to subscribe to our newsletters

रायपुरम्, 21 फ़रवरीमासः (हि.स.)।विष्णुदेव सायः अद्य शनिवासरे स्वस्य द्विषष्टितमं जन्मदिवसं आचरति। अस्मिन् अवसरि नरेंद्र मोदी, अमित शाह तथा रामेन डेका सहिताः अनेके वरिष्ठनेतारः तस्मै शुभाशंसाः प्रेषितवन्तः। ‘एक्स’ इति सामाजिकमाध्यमे सर्वे नेतारः तस्य दीर्घायुषः उत्तमस्वास्थ्यस्य च कामनां कृत्वा राज्यविकासे तस्य नेतृत्वस्य प्रशंसां कृतवन्तः।
प्रधानमन्त्री नरेंद्र मोदी विष्णुदेवसायाय जन्मदिवसशुभकामनाः दत्त्वा राज्यस्य विकासाय तस्य प्रयासान् प्रशंसितवान् तथा तस्य दीर्घायुषः आरोग्यस्य च कामनां व्यक्तवान्।
केन्द्रीयगृहमन्त्री अमितशाह अपि शुभाशंसाः प्रेषयन् उक्तवान् यत् तस्य नेतृत्वे छत्तीसगढ़राज्यं शान्तेः सुरक्षायाः सर्ववर्गकल्याणस्य च उत्तमं कालखण्डं पश्यति।
राज्यपालः रामेनडेका अपि तस्मै उत्तमस्वास्थ्यं दीर्घायुष्यं राज्यसेवायां निरन्तरशक्तिं सफलतां च कामितवान्।
विष्णुदेवसायः १९६४ तमे वर्षे फरवरी-मासस्य एकविंशतितमे दिने जशपुर-जिलान्तर्गत-कांसाबेल-तहसीलस्य बगिया-ग्रामे जातः। तस्य पिता स्वर्गीय रामप्रसादसायः माता च जसमनीदेवी आस्ताम्। १९९१ तमे वर्षे मई-मासस्य सप्तविंशतितमे दिने कौशल्यासाय इत्यनया सह तस्य विवाहः अभवत्। तयोः एकः पुत्रः द्वे च पुत्र्यौ स्तः। सः लोयोला-उच्चतर-माध्यमिक-विद्यालये कुनकुरी-नगरस्थे स्वशिक्षां सम्पन्नवान्।
आदिवासी-पृष्ठभूमेः आगतः विष्णुदेवसायः छत्तीसगढ़स्य प्रथमः आदिवासी-मुख्यमन्त्री अस्ति। सः मध्यमवर्गीय-कृषक-परिवारसम्बद्धः सामाजिककार्येषु सङ्गठनकार्येषु च सक्रियः सन् राजनीतिक्षेत्रे प्रविष्टवान्।
तस्य राजनैतिकजीवनस्य आरम्भः १९८९ तमे वर्षे बगिया-ग्रामपञ्चायतस्य पंचरूपेण अभवत्। १९९० तमे वर्षे सः निर्विरोधं सरपञ्चः निर्वाचितः। १९९० तः १९९८ पर्यन्तं तपकरा-क्षेत्रात् मध्यप्रदेश-विधानसभायाः सदस्यः आसीत्।
१९९९ तमे वर्षे सः रायगढ़-लोकसभा-क्षेत्रात् त्रयोदश-लोकसभायाः सदस्यः निर्वाचितः। अनन्तरं २००४ तथा २००९ तमे वर्षे अपि पुनः सांसदः अभवत्। २०१४ तमे वर्षे षोडश-लोकसभायै पुनर्निर्वाचितः। २०१४ तः २०१९ पर्यन्तं सः केन्द्र-सरकारे इस्पात-खनन-श्रम-रोजगार-मन्त्रालयेषु राज्य-मन्त्रीरूपेण कार्यं कृतवान्।
सङ्गठनक्षेत्रे अपि तस्य महत्त्वपूर्णा भूमिका आसीत्। २००६ तमे वर्षे सः भारतीयजनतादलस्य प्रदेशाध्यक्षः अभवत्। अनन्तरं २०११ तथा २०२० तः २०२२ पर्यन्तं पुनः एतां जिम्मेदारीं वहितवान्। २०२२ तमे वर्षे दिसम्बर-मासस्य द्वितीये दिने तं भाजपा-राष्ट्रीय-कार्यकारिण्यां विशेष-आमन्त्रित-सदस्यत्वेन नियुक्तवन्तः, तथा २०२३ तमे वर्षे जुलाई-मासस्य अष्टमे दिने राष्ट्रिय-कार्यसमित्याः सदस्यः नामितः।
२०२३ तमे वर्षे विधानसभानिर्वाचने सः कुनकुरी-क्षेत्रात् विधायकः निर्वाचितः। २०२३ तमे वर्षे दिसम्बर-मासस्य दशमे दिने विधायकदलस्य नेता निर्वाचितः सन् छत्तीसगढ़स्य मुख्यमन्त्रीपदं प्राप्तवान्।
---------------
हिन्दुस्थान समाचार