अंताराष्ट्रिय मातृभाषा दिवसे ममता बनर्जेः संदेशः, सर्वाभ्यो भाषाभ्यः समानतया सम्माननं दातुं संकल्पः
कोलकाता, 21 फ़रवरीमासः (हि.स.)। अन्ताराष्ट्रियमातृभाषादिवसस्य अवसरे पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी शनिवासरे सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र भावपूर्णं सन्देशं प्रकाशितवती। सा विश्वस्य सर्वाभाषाभाषिणां जनानां प्रति सम्मानं निवेद्य सर
ममता बनर्जी


कोलकाता, 21 फ़रवरीमासः (हि.स.)।

अन्ताराष्ट्रियमातृभाषादिवसस्य अवसरे पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी शनिवासरे सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र भावपूर्णं सन्देशं प्रकाशितवती। सा विश्वस्य सर्वाभाषाभाषिणां जनानां प्रति सम्मानं निवेद्य सर्वान् भाषाशहीदान् तथा भाषा आन्दोलनकर्तॄन् श्रद्धाञ्जलिं अर्पितवती।

स्वसन्देशे सा अवदत् यत् सा केवलं रवीन्द्रनाथस्य, नजरुलस्य, सुकान्तस्य, जीवनानन्दस्य च बाङ्ग्लाभाषायाः एव न, अपितु विश्वस्य प्रत्येकभाषायाः समानतया सम्मानं करोति। स्वकार्यकाले हिन्दी, संथाली, कुरुख, कुड़माली, नेपाली, उर्दू, राजबंशी, कामतापुरी, पंजाबी, तेलुगु इत्यादीनां भाषाणां शासकीयमान्यता प्रदत्ता इति अपि सा उक्तवती। सादरीभाषायाः विकासार्थमपि प्रयत्नाः कृताः इति निर्दिष्टवती।

मुख्यमन्त्री अवदत् यत् हिन्दी अकादमी, राजबंशी भाषा अकादमी, कामतापुरी भाषा अकादमी, संथाली अकादमी च स्थापिताः सन्ति। राज्यस्य प्रत्येकः भाषाभाषी जनः स्वमातृभाषायां शिक्षां प्राप्नुयात् इति सुनिश्चितं कर्तुं प्रयासाः क्रियन्ते इति अपि सा उक्तवती।

सन्देशस्य अन्ते सा पुनः संकल्पं पुनरुच्चार्य अवदत्— यदि कस्यापि भाषायाः उपरि आक्रमणं भवति, तर्हि सर्वे मिलित्वा तस्य विरोधे तिष्ठन्ति। सर्वाः भाषाः समानतया सम्माननीयाः सन्ति इति सा दृढतया अभ्यधात्।

---------------

हिन्दुस्थान समाचार