Enter your Email Address to subscribe to our newsletters





संभलनगरम्, २१ फरवरीमासः (हि.स.)। होली–पर्वणि यत्र वर्णाः हर्षं जनयन्ति, तत्र रासायनिक–युक्तं गुलालरागं कदाचित् त्वचायै, नेत्रेभ्यः, बालकानां कृते च हानिकरं भवति। एतां समस्यां दृष्ट्वा उत्तरप्रदेशस्य सम्भल–जनपदनिवासी हर्ष: गुप्तः सम्पूर्णतः आयुर्वैदिकस्य तथा प्राकृतिकगुलालरागस्य निर्माणाय अभिनवं प्रयत्नं कृतवान्। तस्य एष: प्रयत्न: अद्य केवलं उत्तरप्रदेशे न सीमित:, अपि तु १०–१२ राज्येषु जनानां प्रियवस्तु जातम् अस्ति।
होली वर्णानां पर्व अस्ति। पर्वण: समीपे आगते सति हस्तरस–निर्मित–वर्णानां चर्चा जनानां मुखेषु भवति; किन्तु अधुना उत्तरप्रदेशस्य सम्भल–जनपदः अपि तस्मात् पश्चात् न अस्ति। गतचत्वारिंशत् वर्षेभ्यः सम्भले रागनिर्माणं क्रियते, एते वर्णाः भारतदेशस्य १०–१२ राज्येषु प्रेष्यन्ते। पूर्वं केवलं उत्तरप्रदेशे एव न, अपि तु अन्यराज्येष्वपि जनाः वर्णग्रहणाय हाथरसं गच्छन्ति स्म; अधुना तु सम्भल–निर्मित–वर्णानां याचना प्रदेशेऽन्येषु च राज्येषु निरन्तरं वर्धते।
वर्णविषये हर्षगुप्तः कथयति यत्— आयुर्वेदिकगुलाल–निर्माणस्य विचारः अतएव उत्पन्नः, येन जनाः निर्भयतया होलिकां क्रीडितुं शक्नुवन्ति। अस्मिन् रागे आलू–शर्करायाः (Potato starch) मक्का–शर्करायाः (Corn starch) च उपयोगः क्रियते। तत्र खाद्य–वर्णाः, अहमदाबाद–कन्नौजयोः पुष्पैः प्राप्त: प्राकृतिक–सुगन्धः च मिश्र्यते। सिद्धं मिश्रणं क्षेत्रेषु तिरपालोपरी ७–८ दिनानि यावत् प्राकृतिक–सूर्यप्रकाशे शोष्यते, ततः पेषणं कृत्वा विविध–पुटकेषु पण्यरूपेण विपण्यां प्रेष्यते। निर्माणीस्तरे अष्टाविंशतिवर्षेभ्यः पूर्वं आरब्धं एतत् कार्यं अनुभवतः ४०–४५ वर्षाणि यावत् प्रसरितम् अस्ति। अत्र प्रतिदिनं २ तः २.५ टनपरिमित: गुलालराग: निर्मीयते। बालकानां कृते विशेषतः त्वचा–प्रियं, एलर्जी–रहितं गुलालराग:, गुलाल–पिचकारिका, चॉकलेट्–मिन्ट्–नारिकेल–सुगन्धियुक्ताः वर्णाः अपि निर्मीयन्ते।
हर्षः अवदत् यत् आयुर्वेदिकगुलालराग: न केवलं सुरक्षितः, अपि तु पर्यावरणाय अपि हितकरः अस्ति; सः भूमौ विलीयते, जलं च न प्रदूषयति। होली–ऋतौ अस्मात् निर्माणीत: प्रतिदिनं ४०–५० स्थानीयनागरिका: आजीविकां लभन्ते।
हर्षगुप्तस्य कथनानुसारं तस्य गुलालराग: विशेषतः उत्तरप्रदेशस्य मुरादाबाद–बरेली–आदि–जनपदेषु अधिक: प्रियः अस्ति। प्राकृतिक–विधिना निर्माणात् अधिकपरिश्रमात् च आयुर्वेदिकगुलालराग: सामान्य–गुलालरागात् किञ्चित् माहर्गं अवश्यं, किन्तु स्वास्थ्य–पर्यावरणयोः दृष्ट्या सः अत्युत्तमः विकल्पः सिद्धः भवति।
हिन्दुस्थान समाचार / अंशु गुप्ता