Enter your Email Address to subscribe to our newsletters

वाशिंगटनम्, 21 फ़रवरीमासः (हि.स.)।अमेरिकादेशस्य सर्वोच्चन्यायालयस्य निर्णयानन्तरं राष्ट्रपतिना डोनाल्ड ट्रम्पेन दशप्रतिशतात्मकं वैश्विकशुल्कं विधातुं कार्यकारीआदेशः निर्गतः, यः तत्क्षणमेव प्रवर्तितः। एतत् नवीनं शुल्कं वर्तमान-अमेरिकीशुल्कातिरिक्तं आरोपितं सन् भारतं सहितं सर्वान् देशान् प्रभावितं करिष्यति।
अमेरिकस्य सर्वोच्चन्यायालयेन पूर्वदिने ट्रम्पस्य शुल्कनीतयः असंवैधानिकाः इति घोषिताः। तदनन्तरं एकविंशतितमे फेब्रुवरीमासदिने राष्ट्रपतिना ट्रम्पेन सर्वेषु देशेषु दशप्रतिशतात्मकं वैश्विकशुल्कं विधातुं आदेशः प्रकाशितः। श्वेतगृहकार्यालयेन ‘ट्रुथ सोशल’ इत्यस्मिन् सामाजिकमाध्यमे प्रकाशितां ट्रम्पस्य सूचनां साझीकृत्य उक्तं यत् राष्ट्रपति कार्यकारीआदेशे हस्ताक्षरं कृतवान् तथा शुल्कं तत्क्षणात् प्रभावेन प्रवर्तते।
सर्वोच्चन्यायालयस्य निर्णयं निराशाजनकं निर्दिश्य ट्रम्पः अवदत् यत् न्यायालये तस्य पक्षस्य युक्तयः सम्यक् न श्रुताः। सः अपि उक्तवान् यत् एतादृशः निर्णयः तेन न अपेक्षितः आसीत्।
---
हिन्दुस्थान समाचार