Enter your Email Address to subscribe to our newsletters


श्रीनगर गढ़वालः, 21 फरवरीमासः (हि.स.)। अनिल चौहानः शनिवासरे श्रीनगर गढ़वाल नगरम् आगतवान्। सः हेमवती नंदन बहुगुणा गढ़वाल विश्वविद्यालय इत्यस्य चौरस-परिसरे आयोजिते विशेष-कार्यक्रमे सहभागित्वं कृतवान् तथा राष्ट्रिय-सुरक्षा-समसामयिक-विषयेषु छात्र-छात्राभिः सह संवादं कृतवान्।
स्वीय-उद्बोधने जनरल-चौहानः उक्तवान् यत् राष्ट्रिय-सुरक्षा केवलं सैन्यस्य दायित्वं नास्ति, अपितु प्रत्येकस्य नागरिकस्य साझा-उत्तरदायित्वम् अस्ति, यस्य आरम्भः विद्यालयेषु विश्वविद्यालयेषु च भवितुम् अर्हति।
सः भारतस्य सामरिक-परम्पराणां उल्लेखं कृत्वा आत्मनिर्भरता-भावं राष्ट्रिय-सुरक्षायाः केन्द्रीय-तत्त्वम् इति निरूपितवान्। परिवर्तमान-युद्ध-स्वरूपं, प्रौद्योगिकी-प्रधान-संघर्षाः, सीमावर्ती-आव्हानानि, परमाणु-शक्ति-संपन्न-परिवेश-देशानां सन्दर्भे च सुदृढ-सर्वकारस्य, शक्तिशाली-सैन्यस्य, रणनीतिक-तत्परतायाः च आवश्यकता विशेषतया प्रतिपादिता।
कार्यक्रमे छात्र-छात्राभिः राष्ट्रिय-सुरक्षा-सैन्य-व्यवसाय-सम्बद्धाः प्रश्नाः अपि पृष्टाः, येषां समाधानं तेन प्रदत्तम्। महिला-भर्ती-विषये प्रश्नस्य उत्तरे सः अवदत् यत् भारतीय-सैन्ये नारिभ्यः समान-अवसराः उत्तरदायित्वानि च प्रदीयन्ते, चयनस्य आधारः केवलं योग्यता प्रतिबद्धता च अस्ति।
अस्मिन् अवसरि जनरल-चौहानः विश्वविद्यालयस्य ग्रन्थालयाय २२७ महत्त्वपूर्ण-ग्रन्थान् उपहाररूपेण अर्पितवान्। तथा च प्रो. एम.पी.एस. बिष्टेन सम्पादितस्य ‘रणभूमि-दर्शन’ नामक-ग्रन्थस्य विमोचनम् अपि कृतम्। अस्मिन् ग्रन्थे सीमावर्ती-ग्रामाणां भ्रमण-संस्मरणानि तथा सैन्य-छावनी-लैंसडाउन-सम्बद्ध-वृत्तान्तानां संकलनम् अस्ति।
कार्यक्रमस्य अध्यक्षता कुर्वन् विश्वविद्यालयस्य कुलपतिः प्रो. श्रीप्रकाश-सिंहः उक्तवान् यत् उत्तराखण्डस्य वीरभूमिः जनरल-चौहानस्य आगमनेन गौरवान्विता जाता। तेन अपि सूचितं यत् विश्वविद्यालयेन सैन्येन सह अग्निवीर-प्रशिक्षण-कार्यक्रमेषु सहमति-पत्राणि कृतानि सन्ति, तथा ‘विकसित-भारत-२०४७’ संकल्पस्य साकारार्थं प्रतिबद्धता व्यक्ता। ग्रन्थालयाय प्रदत्त-ग्रन्थानां कृते अपि तेन कृतज्ञता प्रकटिता।
कार्यक्रमे विनोद कंडारी इत्येभिः सहिताः सैन्य-अधिकारिणः, अध्यापकाः, शोधार्थिनः, बहुसंख्यकाः छात्र-छात्राश्च उपस्थिताः आसन्।---------------
हिन्दुस्थान समाचार