उत्तराखण्ड–क्रीडा–विश्वविद्यालयस्य प्रथम–प्रबन्ध–परिषद्–सभायां ‘ग्रामात् ओलम्पिकक्रीडांं प्रति’ दृष्ट्याः विशेष–बलम्
देहरादूननगरम्, २१ फरवरीमासः (हि.स.)। उत्तराखण्ड–क्रीडा–विश्वविद्यालयस्य प्रथम–प्रबन्ध–परिषद्–सभा शनिवासरे लोक–भवने राज्यपालस्य लेफ्टिनेन्ट–जनरल् गुरमीतसिंहस्य (से.नि.) आध्यक्षे आयोजिताऽभवत्। अस्यां सभायां ‘ग्रामात् ओलम्पिकं प्रति’ दृष्ट्याः विशेष–ब
उत्तराखण्ड क्रीड़ा विश्वविद्यालय की प्रबन्ध परिषद की प्रथम बैठक शनिवार को लोक भवन में राज्यपाल लेफ्टिनेंट जनरल गुरमीत सिंह (से. नि.) की अध्यक्षता में आयोजित बैठक।


देहरादूननगरम्, २१ फरवरीमासः (हि.स.)। उत्तराखण्ड–क्रीडा–विश्वविद्यालयस्य प्रथम–प्रबन्ध–परिषद्–सभा शनिवासरे लोक–भवने राज्यपालस्य लेफ्टिनेन्ट–जनरल् गुरमीतसिंहस्य (से.नि.) आध्यक्षे आयोजिताऽभवत्। अस्यां सभायां ‘ग्रामात् ओलम्पिकं प्रति’ दृष्ट्याः विशेष–बलं प्रदर्शितम्। विश्वविद्यालयस्य शैक्षणिक:, प्रशासनिक: अवस्थापना–संबन्धिन्याः च रूपरेखायाः विषये विस्तीर्ण–चर्चा अभवत्।

कुलपतिः अमितकुमार: सिन्हा विश्वविद्यालयस्य स्थापना, प्रस्तावित-पाठ्यक्रमाः, मानवसंपदा, प्रशासनिक–संरचनां तथा आधारभूत–सुविधानां विकास: इत्यादिषु विस्तृतं प्रस्तुतीकरणं कृतवान्। शिक्षण–प्रशासनिक–पदानां सृष्टेः प्रस्तावेषु विचार–विमर्शे औचित्येन प्रस्तावाः शासनाय प्रेषणीयाः इति सहमति: अभवत्।

सभायां अवबोधितं यत् विश्वविद्यालयस्य परिकल्पना वर्षे २०२२ तमे कृता। तस्य अधिनियमः मार्चमासे २०२५ तमे पारितः, तथा ५ मईमासे २०२५ तमे राज्यपालस्य अनुमोदनं प्राप्तम्। विश्वविद्यालयस्य मुख्यालयः गौलापार, हल्द्वानी इत्यस्मिन् स्थाप्यते, यः “मिशन ओलम्पिक २०३६” लक्ष्यानुसारं विकासितः भवति।

राज्यपालः उक्तवान् – “क्रीडा–विश्वविद्यालयः केवलं प्रमाणपत्र–प्रदानाय सीमितः न भवेत्, किन्तु उत्कृष्ट–क्रीडा–संस्कृतेः निर्माणस्य केन्द्रं भवेत्।” स: ‘ग्रामात् ओलम्पिकं’ अवधारणां प्रवर्धयन् ग्रामीण–प्रदेशेषु क्रीडा–प्रतिभानां चिन्हनम्, प्रशिक्षणम् तथा प्रोत्साहनं विशेष–बलेन करणीयम् इति निर्दिष्टवान्। अन्यै: क्रीडा–विश्वविद्यालयैः संस्थाभिः च सन्धि–ज्ञापनानि (एमओयू) कृत्वा प्रशिक्षणम्, अनुसन्धानं तथा तन्त्रज्ञान–सहयोगं प्रवर्धयितुं निर्देशाः दत्ताः।

सभायां कुलसचिवः डॉ.आशीषचौहान:, अपर–सचिवः मनुजगोयल:, अपर–सचिवः नवनीतपाण्डेयः अन्ये सदस्याः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता