उत्तरप्रदेशे द्विशतं एकविंशतितिस्सहस्रकृषककुटुम्बेभ्यः प्रत्यक्षं २८५ कोटि रूप्यकाणि सस्य-क्षतिपूर्तिरूपेण प्रदत्तानि
लखनऊनगरम्, २१ फरवरीमासः (हि.स.) – मुख्यमंत्रीयोगी-आदित्यनाथेन शनिवासरे स्वसर्वकारी-आवासे आयोजिते कार्यक्रमे उत्तरप्रदेशे द्विशत-एकविंशतितिस्सहस्रकृषककुटुम्बेभ्यः प्रत्यक्षं २८५ कोटि रूप्यकाणि सस्य-क्षतिपूर्तिरूपेण प्रदत्तानि। अस्मिन् अवसरे मुख्यमंत
कार्यक्रम को संबोधित करते हुए सीएम योगी


लखनऊनगरम्, २१ फरवरीमासः (हि.स.) – मुख्यमंत्रीयोगी-आदित्यनाथेन शनिवासरे स्वसर्वकारी-आवासे आयोजिते कार्यक्रमे उत्तरप्रदेशे द्विशत-एकविंशतितिस्सहस्रकृषककुटुम्बेभ्यः प्रत्यक्षं २८५ कोटि रूप्यकाणि सस्य-क्षतिपूर्तिरूपेण प्रदत्तानि। अस्मिन् अवसरे मुख्यमंत्रीयोगी-आदित्यनाथेन उक्तम् – “सस्यं बीमायै समर्पयित्वा आपदाकाले यदि सस्य नष्टं भवति तर्हि आर्थिकसहाय्यं लभ्यते। एषा राशिः अन्नदातृकृषकेभ्यः संबलरूपेण दातव्या।”

प्रधानमन्त्री सस्यबीमायोजना तथा मुख्यमंत्री-कृषक-दुर्घटना-कल्याण-योजनाया: अन्तर्गतं सहाय्यराशि-वितरणकार्यक्रमे संबोधनं कुर्वन् मुख्यमंत्री योगी-आदित्यनाथेन उक्तम् – “प्रदेशे द्विशत-एकविंशतितिस्सहस्र-कृषककुटुम्बेभ्यः २८५ कोटि रूप्यकाणि सस्य-क्षतिपूर्तिरूपेण प्रदत्तानि। एते कृषकाः अतिवृष्ट्या दुष्कालात् वा प्रभाविताः सन्ति। आपदा गम्भीराऽस्ति। मनुष्य: केवलं पूर्तिं न करिष्यति, किन्तु शासनं संबलप्रदानाय स्थितम्। अन्नदातृकृषकेभ्यः शासनं अद्य योजनया सम्पृक्तं करोतु। शासनं सर्वदा सहयोगाय सज्ज: अस्ति।”

मुख्यमंत्रिणा उक्तम् – “सस्येन बीमाकरणे अतीव सामान्यव्यय: एव भवति, किन्तु आपदा कारणेन यदि नष्टं भवति तर्हि तस्य पूर्तिः लभ्यते। अहं निरीक्षितवान् यत् कतिपय-कृषकेभ्यः एकलक्षसप्तदश-सहस्ररूप्यकाणि, कतिपयेभ्य: एकलक्षसप्ताशीति-सहस्ररूप्यकाणि, द्विलक्ष-एकादशसहस्र-रूप्यकाणि, कतिपयेभ्य: अष्टाशीतिसहस्र-रूप्यकाणि लब्धानि। एतत्सर्वम् अन्नदातृकृषकेभ्यः संबलरूपेण प्राप्यन्ते।”

पूर्वं प्रदेशे आपदा आगच्छति स्म तु पीडितेभ्य: दीर्घकालपर्यन्तं किमपि साहाय्यं न लभते स्म। २०१५–१६ तमे वर्षे कृषक-धनागारे द्वौ, चत्वारि रूप्यकाणि प्रेषितानि दृश्यन्ते। शासनं परिवर्तितम्, कार्यवाही आरब्धा। आपदा-घटनात् २४ होरानन्तरं पीडिताय सहाय्यराशिं प्रदातुं कार्यं प्रवर्तते।

अस्मिन् अवसरे कृषि-मन्त्री सूर्यप्रतापः शाही, राज्यमन्त्री बलदेवसिंह: औलखः, शासनस्य अधिकारिण: अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता