Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २१ फरवरीमासः (हि.स.)। उपराष्ट्रपति: सी.पी.राधाकृष्णन् रविवासरे तमिलनाडुराज्यस्य एकदिवसीयं भ्रमणं करिष्यति।उपराष्ट्रपति: सचिवालयस्य विवरणानुसारं, उपराष्ट्रपति: मदुरै–वन्दियूरे स्वाधीनता–सैनिकस्य वी.ओ.चिदम्बरम् पिल्लै इत्यस्य प्रतिमायाः शिलान्याससमारोहाय मुख्यातिथित्वेन सहभागं करिष्यति। अस्मिन् अवसरे राज्यस्य जनप्रतिनिधयः, प्रशासनिकाः अधिकारिण:, महतीसंख्यायां स्थानीयनागरिका: अपि उपस्थिताः भविष्यन्ति।
भ्रमणकाले उपराष्ट्रपति: शिवगङ्गा–जनपदे स्थितं प्रख्यातं थिरुकोष्टियूर-सौम्य-नारायण-पेरुमल्-मंदिरम् अपि दर्शनाय आगमिष्यति। तस्यापरं स: ऐतिहासिकं रानीवेलुनचियारपैलेसं अपि भ्रमणं करिष्यति।
उपराष्ट्रपतिन: एतत् भ्रमणं सांस्कृतिक–ऐतिहासिक–महत्त्वपूर्णस्थलेषु सम्बन्धितः अस्ति तथा क्षेत्राय महत्त्वपूर्णं इति गण्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता