Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २१ फरवरीमासः (हि.स.)। अन्ताराष्ट्रिय–मातृभाषा–दिवसस्य अवसरे पश्चिम–बंगाल–राज्यस्य सूचना–संस्कृति–विभागेन अस्य वर्षस्य ‘बंग–सम्मान’–पुरस्कार–सूची प्रकाशिताभवत्। अस्मिन् वर्षे चलचित्र–जगतः प्रति उल्लेखनीय–योगदानस्य हेतुना अभिनेता परमब्रत: चट्टोपाध्यायः ‘बंग–भूषण’–सम्मानेन सम्मानितुं निर्णीतः।
परमब्रत–चट्टोपाध्यायेन न केवलं बाङ्ग्ला–चलचित्रेषु स्वकीया विशिष्टा परिचय: निर्मित:, अपि तु हिन्दी–चलचित्र–जगति अपि सः सक्रियां भूमिकां निर्वहति। अभिनयेन सह निर्देशकत्वेनापि स्वदक्षतां सिद्धवान्। अस्य बहुआयामी–योगदानस्य विचारं कृत्वैव तं राज्यस्य प्रतिष्ठित–सम्मानेन अस्मिन् वर्षे अलङ्कर्तुं निश्चयः कृतः।
सङ्गीत–क्षेत्रे विशिष्ट–योगदानस्य हेतुना श्रीराधाबंद्योपाध्याय:, नचिकेता चक्रवर्ती, लोपामुद्रा मित्र तथा बाबुल: सुप्रियो इत्येते ‘बंग–विभूषण’–सम्मानेन सम्मानिताः भविष्यन्ति। अनेन सह प्रसिद्धः चित्रकारः गणेश: हालुई तथा कविः श्रीजात: बंद्योपाध्याय: अपि सम्मान–सूच्यां समाविष्टौ स्तः।
‘बंग–भूषण’–सम्मान–प्राप्तेषु परमब्रत–चट्टोपाध्यायेन सह मनोमय: भट्टाचार्य:, राघवचट्टोपाध्याय: तथा रूपंकर: बागची अपि सन्ति। सूचीमध्ये लोक–कलाकारौ कार्तिकदासबाउल: तथा अदिति मुंशी इत्येतयोः नाम्नी अपि अङ्किते स्तः।
‘बंग–विभूषण’–सम्मानेन सम्मानिता गायिका इमन चक्रवर्ती स्व–प्रतिक्रियायां अवदत् यत् सा अस्य सम्मानस्य कृते आजीवनं कृतज्ञा भविष्यति। राज्य–शासनं धन्यवादं दत्त्वा सा अवदत् यत् अस्य राज्यस्य सर्वोच्चं सम्मानम् अस्ति, तथा बाङ्ग्ला–गीतस्य बाङ्ग्ला–भाषायाश्च विजयः एव।
हिन्दुस्थान समाचार / अंशु गुप्ता