Enter your Email Address to subscribe to our newsletters

सुपौलनगरम्, २१ फरवरीमासः (हि.स.) – सुपौल-अभियन्त्रण-महाविद्यालयस्य विद्युत-अभियन्त्रण-विभागेन २३ फरवरी-मासात् आरभ्य २८ फरवरीमास-पर्यन्तं सप्तदिनस्य राष्ट्रीयकार्यशालायाः आयोजनं क्रियते। कार्यशालायाः विषयः – “भविष्यं सशक्तीकर्तुं: पावर-इलेक्ट्रॉनिक्स्, इलेक्ट्रिक्-वाहनानि च ऊर्जा-भण्डारण-प्रणाली” इत्यस्ति।
अस्या: राष्ट्रीयकार्यशालाया: आयोजनं बिहार-वैज्ञानिक-प्रौद्योगिकी-संघस्य (Bihar Council on Science and Technology) प्रायोजनात् क्रियते। कार्यक्रमे विभिन्न-प्रतिष्ठित-राष्ट्रीय-प्रौद्योगिकी-संस्थानात् तथा अन्य राजकीय-अभियन्त्रण-महाविद्यालयात् प्रख्याताः प्राध्यापकाः, शोधकर्तारः, तथा विषयविशेषज्ञाः व्याख्यानं दास्यन्ति।
कार्यशालाया: मुख्यम् उद्देश्यं छात्रान्, शोधार्थिनः च, शिक्षकान् च पावर्-इलेक्ट्रॉनिक्स्, विद्युत्-वाहनस्य आधुनिक-तन्त्रज्ञानम्, बैटरी-प्रबन्धन-प्रणालीं, चार्जिंग-अवसंरचनां ऊर्जा-भण्डारण-प्रणालीनां च क्षेत्रे नूतनं शोधं औद्योगिक-विकासं च अवगन्तुं शिक्षयितुं च अस्ति। सप्तदिनपर्यन्तं कार्यक्रमे विशेषज्ञ-व्याख्यानानि, तकनीकी-सत्राणि, संवादात्मक-चर्चा, प्रश्नोत्तर-सत्राणि, तथा व्यावहारिक-प्रशिक्षणम् अपि समाविष्टम् भविष्यति।
महाविद्यालयस्य प्राचार्य: डॉ.ए.एन.मिश्रा कार्यक्रमस्य मुख्य-संरक्षकः अस्ति। कार्यशालाया: संयोजकत्वं समन्वयकत्वं च विद्युत-अभियन्त्रण-विभागाध्यक्ष: डॉ.राजागांधीन: नेतृत्त्वे विभागस्य सहायक-प्राध्यापकाः—अजय-आनन्दः, प्रकाशः कुमारः, पंकजः सिंहः, अमृता, सूरजः कुमारः, मोहम्मद् वारिश् सेनन्, तथा ओमप्रकाश् दुबे—सक्रियं योगदानं ददति।विशेषतया महाविद्यालयस्य संकायाध्यक्ष: डॉ.चन्दनकुमारस्य आयोजने महत्वपूर्णं च प्रशंसनीयं योगदानम् आसीत्। तस्य मार्गदर्शनेन समन्वयेन च कार्यक्रमस्य रूपरेखा सिद्धा, तथा राष्ट्रीय-स्तरस्य विशेषज्ञा: आमन्त्रिताः। प्रशासनिके शैक्षणिके समन्वये च तस्य प्रभावशाली भूमिकायाः फलतः आयोजनम् उच्च-स्तरे सम्पत्स्यते इति आशा अस्ति।
महाविद्यालय-प्रशासनानुसारं एतस्य प्रकारस्य राष्ट्रीय-स्तर-कार्यक्रमात् छात्रेभ्य: नवीनतम-तकनीकी-ज्ञानं लभ्यते, तथा ते शोधे, नवाचारे, उद्योगे च संलग्नतायाः अवसरं प्राप्स्यन्ति। एषा कार्यशाला संस्थानेन सह समग्र-क्षेत्रे तकनीकी-शिक्षां कौशल-विकासाय च नवदिशां प्रदास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता