अखिलभारतीयविद्यार्थीपरिषद् पक्षतः ओड़िशा-राज्यस्य पुरातन-महिला-महाविद्यालयाय 'शैलाबाला' इति संस्थायाः कृते विश्वविद्यालय-मान्यतायाः याचना
भुवनेश्वरम्, 22 फ़रवरीमासः (हि.स.)। अखिलभारतीयविद्यार्थीपरिषदः ओड़िशा-राज्यस्य प्राचीनतमं महिला-महाविद्यालयं, ''शैलाबाला स्वायत्त महिला महाविद्यालय'' इति संस्थां विश्वविद्यालय-मान्यतां प्रदातुं माङ्गं कृतवती। ​परिषदः ओड़िशा (पूर्व) प्रान्तस्य मन्त
अखिल भारतीय विद्यार्थी परिषद


भुवनेश्वरम्, 22 फ़रवरीमासः (हि.स.)। अखिलभारतीयविद्यार्थीपरिषदः ओड़िशा-राज्यस्य प्राचीनतमं महिला-महाविद्यालयं, 'शैलाबाला स्वायत्त महिला महाविद्यालय' इति संस्थां विश्वविद्यालय-मान्यतां प्रदातुं माङ्गं कृतवती।

​परिषदः ओड़िशा (पूर्व) प्रान्तस्य मन्त्री दीप्तिमयी प्रतिहारी एकां विज्ञप्तिं निर्दिश्य अवदत् यत् ओड़िशा-राज्यस्य पुरातनतमः महिला-महाविद्यालयः, शैलाबाला-महिला-महाविद्यालयः अद्यापि विश्वविद्यालय-मान्यतां प्राप्तुं न शक्तवान्। २०१७ तमे वर्षात् विश्वविद्यालयस्य घोषणायाः विभिन्न-भौतिक-विकास-कार्याणां च कृते आन्दोलनं कुर्वती अखिल भारतीय विद्यार्थी परिषदः सर्वकारं प्रति अस्य संस्थानस्य विश्वविद्यालय-मान्यतायै निरन्तरं माङ्गं करोति।

​कटक-नगरे स्थितः अयं शैलाबाला-महाविद्यालयः, 'उत्कल-गौरव' मधुसूदन दास महोदयस्य सुपुत्र्याः नाम्ना स्थापितः अस्ति, यः महिला-शिक्षायाः सशक्तिकरणस्य च क्षेत्रे अद्वितीयं योगदानं प्रयच्छति। ए.बी.व्ही.पी. २०१७ तमे वर्षात् एव आन्दोलनं प्रारब्धवती आसीत् तथा च २०१९ तमे वर्षे तत्कालीन-राज्यपालेन प्रो. गणेशी लाल महोदयेन सह मिलित्वा महाविद्यालयस्य कृते विश्वविद्यालय-मान्यतां दापयितुं आग्रहं कृतवती आसीत्।

​सा अवदत् यत् अखिल भारतीय विद्यार्थी परिषद इति दलस्य विश्वासः अस्ति यत् शैलाबाला-महिला-महाविद्यालयाय विश्वविद्यालय-मान्यता प्रदानं अतीव आवश्यकं वर्तते। अनेन न केवलं संस्थानं स्वाभिज्ञानं प्राप्स्यति, अपितु अस्य पूर्व-शिक्षकाणां अ-शैक्षणिक-कर्मचारिणां च नियुक्तिं प्रति, परिसरस्य समग्र-विकासस्य दिशि च सर्वकारेण अग्रे गन्तव्यम्।

अखिल भारतीय विद्यार्थी परिषद इत्यनया एषा चिन्ता अपि व्यक्ता कृता यत् महाविद्यालयस्य भूमिः सौन्दर्यीकरणस्य नाम्ना अधिग्रहीता भवति, किन्तु तस्य प्रतिदाने या भूमिः दातव्या आसीत्, तस्याः वचनं अद्यापि न पूर्णं जातम्।

​यद्यपि २०२६ वर्षस्य आयव्ययके सर्वकारेण चत्वारः नूतन-विश्वविद्यालयाः स्थापयितुं प्रस्तावः प्रस्तुतः, तथापि शैलाबाला-महिला-महाविद्यालय-सदृशं पुरातनं गुणवत्तापूर्ण-शिक्षा-प्रदायिनं संस्थानं विश्वविद्यालय-मान्यतां दातुं अतीव अनिवार्यं वर्तते।

​सा उक्तवती यत् अस्मिन् महाविद्यालये स्वतन्त्रां परिचयं दातुम् अस्य विकासे विशेषं ध्यानं दातव्यम्। यदि सर्वकारः अस्यां दिशि उचितं पदं न वर्धयिष्यति, तर्हि ए.बी.व्ही.पी. आन्दोलनस्य माध्यमेन मार्गात् आरभ्य अन्य-माध्यमैः आन्दोलनं कर्तुं सिद्धा अस्ति।

हिन्दुस्थान समाचार