भूपेन बोरा कांग्रेसदलस्य हस्तं त्यक्त्वा प्रहसन् भाजपादलस्य स्व्यकरोत् कमलपुष्पम्
गुवाहाटी, 22 फरवरीमासः (हि.स.)। असमराज्ये महत्त्वपूर्णे राजनैतिकघटनाक्रमे असम प्रदेश कांग्रेस कमेटी इत्यस्य पूर्वप्रदेशाध्यक्षः भूपेन बोरा रविवासरे औपचारिकरूपेण भारतीय जनता पार्टी इत्यस्य सदस्यतां स्वीकृतवान्। भूपेन बोरा अन्यैः राज्यस्तरीयनेतृभिः स
असमः प्रदेश भाजपा के अध्यक्ष दिलीप सैकिया की उपस्थिति में भाजपा की सदस्यता ग्रहण करते असम प्रदेश कांग्रेस के पूर्व अध्यक्ष भूपेन बोरा।


गुवाहाटी, 22 फरवरीमासः (हि.स.)। असमराज्ये महत्त्वपूर्णे राजनैतिकघटनाक्रमे असम प्रदेश कांग्रेस कमेटी इत्यस्य पूर्वप्रदेशाध्यक्षः भूपेन बोरा रविवासरे औपचारिकरूपेण भारतीय जनता पार्टी इत्यस्य सदस्यतां स्वीकृतवान्। भूपेन बोरा अन्यैः राज्यस्तरीयनेतृभिः सह, असमभाजपायाः प्रदेशाध्यक्षस्य सांसदस्य च दिलीप सैकिया उपस्थितौ, भाजपायां प्रवेशप्रक्रियाम् पूर्णीकृतवान्।

प्रदेशभाजपायाः मुख्यालये अटल बिहारी वाजपेयी भवन इति स्थाने भूपेन बोरा आगतः चेत्, मुख्यद्वारे तस्य स्वागतं मन्त्री जयंत मल्ल बरुवा, सांसदः प्रदान बरुवा तथा प्रदेशभाजपायाः वरिष्ठनेतारः अकुर्वन्।

औपचारिकप्रवेशात् पूर्वं माध्यमप्रतिनिधीनां समक्षं बोरा उक्तवान् यत् महाभारत युद्धात् पूर्वं कर्णस्य या अवस्था आसीत्, तादृशी एव अवस्था कांग्रेसस्य गौरवशालिनाम् असमीयानां वर्तते। “अहं राजीव भवनात् बाजपेयी भवनपर्यन्तं सराइघाटक्षेत्रस्य सदृशीं भूमिकां निर्वहिष्यामि। कांग्रेसदले स्थितः सन् मम वस्त्रं रक्तेन रञ्जितम् आसीत्। अद्य तत् वस्त्रं धारयित्वा भाजपाकार्यालयम् आगतः अस्मि। तत् रक्तं भाजपया सह जातसंघर्षस्य परिणामः आसीत्। भाजपादलम् अस्य रक्तस्य मूल्यं करिष्यति इति मन्ये, अतः एतत् वस्त्रं धारयामि।” इति सः अवदत्।

उल्लेखनीयम् यत् गतशनिवासरे भाजपायां प्रवेशविषये उल्लेखं कृत्वा भूपेन बोरा सामाजिकमाध्यमेषु लिखितवान् यत् एषः निर्णयः सुकरः न आसीत्। गम्भीरेण मनोबलस्य सह एषः निर्णयः जनसेवायै स्वीकृतः इति तेन उक्तम्।

ज्ञातव्यं यत् भूपेन बोरा असमप्रदेशीययुवाकांग्रेसस्य अध्यक्षरूपेण स्वराजनैतिकजीवनस्य आरम्भं कृतवान्। सः २००६ तमे वर्षे बिहपुरिया क्षेत्रात् असमविधानसभायाः सदस्यत्वेन निर्वाचितः, २०११ तमे वर्षे पुनः निर्वाचितः। तरुण गोगोई मुख्यमन्त्रित्वकाले सः असमसरकारस्य प्रवक्ता संसदीयसचिवश्च आसीत्। २०१३ तमे वर्षे सः अखिल भारतीय कांग्रेस समिति इत्यस्य सचिवरूपेण नियुक्तः। २०२१ तमे वर्षे सः असमप्रदेशकांग्रेससमितेः अध्यक्षरूपेण नियुक्तः।

भूपेन बोरा इत्यस्य भाजपायां प्रवेशेन विधानसभा निर्वाचनस्य समीपे एव कांग्रेसदले महदाघातः जातः इति मन्यते। तथापि कांग्रेसदलेन उक्तं दृश्यते यत् तस्य गमनात् दलस्य स्थितौ कश्चन विशेषप्रभावः न भविष्यति, किन्तु पूर्वमेव दुर्बलस्य कांग्रेसदलस्य स्थितिः निर्वाचनसमये अधिकं दुर्बला भविष्यति इति अभिप्रायः प्रचलति। भूपेन बोरा अपि अद्य उक्तवान् यत् यदा कांग्रेसदलेन उमेदवारनामानि घोषितानि भविष्यन्ति, तदा बहवः वरिष्ठकांग्रेसनेतारः भाजपादलम् आश्रयिष्यन्ति।

अस्मिन् अवसरे डॉ. संजू बरुवा अपि भाजपायाः सदस्यतां स्वीकृतवान्। सः अपि कांग्रेसदलम् परित्यज्य भाजपायां प्रविष्टः। अस्मिन् समये अन्ये अपि बहवः वरिष्ठकांग्रेसनेतारः भाजपादलस्य सदस्यतां स्वीकृतवन्तः।--------------------

हिन्दुस्थान समाचार