वनवासी कल्याण आश्रमस्य 43तमो वार्षिकोत्सव संपन्नो, जनजाति समाजस्य सशक्तिकरणे बलम्
कोलकाता, 22 फरवरीमासः (हि.स.)। अखिल भारतीय वनवासी कल्याण आश्रम इत्यस्य त्रिचत्वारिंशत् ४३ तमे वार्षिकोत्सवस्य अवसरं प्राप्य कोलकाता नगरे कला मंदिर इति स्थाने रविवासरे भव्यकार्यक्रमस्य आयोजनं कृतम्। अस्मिन् अवसरे आश्रमसम्बद्धेन पूर्वांचल कल्याण आश्र
वनवासी कल्याण आश्रम


कोलकाता, 22 फरवरीमासः (हि.स.)। अखिल भारतीय वनवासी कल्याण आश्रम इत्यस्य त्रिचत्वारिंशत् ४३ तमे वार्षिकोत्सवस्य अवसरं प्राप्य कोलकाता नगरे कला मंदिर इति स्थाने रविवासरे भव्यकार्यक्रमस्य आयोजनं कृतम्। अस्मिन् अवसरे आश्रमसम्बद्धेन पूर्वांचल कल्याण आश्रम जनजाति वनवासीसमाजेन सह विशेषसमारोहः आयोजितः। कार्यक्रमस्य मुख्योद्देश्यः जनजातिसमाजस्य शिक्षाया स्वास्थ्यस्य स्वावलम्बनस्य सांस्कृतिकजागरणस्य च माध्यमेन सशक्तीकरणं कृत्वा तान् राष्ट्रीयविकासस्य मुख्यधारायां संयोजयितुम् आसीत्।

कार्यक्रमस्य अध्यक्षतां हरियाणा इण्टरनेशनल् स्कूलस्य अध्यक्षः प्रसिद्धोद्योगपति प्रमोद गुप्ता अकरोत्। मुख्यातिथिरूपेण विश्व हिंदू परिषद इत्यस्य केन्द्रीयकोषाध्यक्षः प्रख्यातनेत्रविशेषज्ञः डॉ. श्याम अग्रवाल उपस्थितः आसीत्। स्वसम्बोधने सः अवदत् यत् बंगालराजनीतौ अनुशासनस्य आवश्यकता अस्ति; अनुशासनेन एव समाजकल्याणं संभवति। वनवासी कल्याण आश्रमः जनजातिसमाजस्य सशक्तीकरणाय मुख्यधारायां संयोजनाय च निरन्तरं प्रयत्नं करोति इति अपि सः उक्तवान्।

मुख्यवक्तारूपेण प्रसिद्धचलच्चित्रनिर्देशकः लेखकः अभिनेता च डॉ. चंद्रप्रकाश द्विवेदी अवदत् यत् सभ्यतायाः विकासः वनात् नगरं प्रति अभवत्। रामायण इत्यस्य उल्लेखं कृत्वा सः वनाञ्चलानां महत्त्वं प्रतिपादितवान्, वनप्रदेशेषु अपि ज्ञानसंस्कृत्योः गाढः आधारः अस्ति इति निर्दिष्टवान्।

स्वाध्यक्षीयसम्बोधने प्रमोदगुप्तः पूर्वांचलकल्याणाश्रमस्य वनवासीसमाजहिताय कृतकार्याणि प्रशंसितवान्। सः अवदत् यत् वनवासीसमुदायः प्रायः मुख्यधारात् पृथक् इति मन्यते, किन्तु वस्तुतः सः सर्वगुणसम्पन्नः सांस्कृतिकरूपेण समृद्धश्च अस्ति। रामायणप्रसङ्गं निर्दिश्य हनुमान इत्यस्य उदाहरणं दत्त्वा सः उक्तवान् यत् वनवासीसमुदायः धर्मसत्यमर्यादामार्गे चरति।

सः अपि अवदत् यत् वनवासीसमाजः प्रकृतिसंरक्षणस्य जीवदृष्टान्तः अस्ति; तेषामुत्थानाय कार्यं करणं श्रेष्ठं सामाजिकं आध्यात्मिकं च दायित्वम्। धर्मरक्षणाय धर्मस्य उपयोगः उत्तमं कर्म; वनवासीसेवा अपि तस्यैव रूपम्। भगवान शंकर इत्यस्य उदाहरणेन सः प्रकृतिसंरक्षणस्य सामाजिकसन्तुलनस्य च सन्देशस्य अद्य विशेषप्रासङ्गिकतां प्रतिपादितवान्।

कार्यक्रमस्य द्वितीयसत्रे ख्यातनरेशबाबा श्यामकथायाः आधारेण ‘हारे का सहारा – बर्बरीक श्याम हमारा’ इति सांस्कृतिकप्रस्तुतिः अभवत्। अस्य सांस्कृतिककार्यक्रमस्य निर्देशनं सुप्रसिद्धया सांस्कृतिकसंस्थया ‘मधुरा’ इत्यस्याः शुभ्रा अग्रवाल इत्यया कृतम्।

समारोहे विविधसामाजिकसंस्थानां प्रतिनिधयः शिक्षाविदः चिकित्सकाः तथा बहुसंख्यकाः जनजातिसमाजस्य सदस्याः उपस्थिताः आसन्। कार्यक्रमस्य समापनं राष्ट्रनिर्माणे जनजातिसमाजस्य भूमिकां अधिकं सुदृढीकर्तुं संकल्पेन अभवत्।

उल्लेखनीयम् यत् पूर्वांचलकल्याणाश्रमस्य कोलकाता तथा हावड़ा महानगरशाखे १९५२ वर्षात् आरभ्य निरन्तरं जनजातीयसमाजोत्थानाय कार्यं कुर्वतः। त्रिसप्ततिवर्षीयायां १९५२–२०२५ इत्यस्यां सततयात्रायां संगठनम् शिक्षाचिकित्सासामाजिकजागरूकताक्षेत्रेषु अनेकारम्भान् कृतवान्।---------------------

हिन्दुस्थान समाचार