Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २२ फरवरीमासः (हि.स.)। रागानां पर्व होली देशव्यापिनां व्यापारिणां कृते महान्तं उपहारं वहति। व्यापारी–सङ्घटनस्य 'कन्फेडरेशन ऑफ ऑल इंडिया ट्रेडर्स (कैट)'- मतानुसारं अस्मिन् वर्षे होली–पर्वणि देशस्य विपणिषु ८० सहस्र–कोटि–रूप्यकाणाम् अधिकस्य व्यापारस्य अपेक्षा विद्यते। एषः अङ्कः गतवर्षस्य ६० सहस्र–कोटि–रूप्यकाणां तुलनायां प्रायः २५ प्रतिशतं अधिकम् अस्ति।
कैट–संस्थायाः राष्ट्रीय–महामन्त्री तथा चाँदनी–चौक–सांसदः प्रवीणखंडेलवाल: रविवासरे प्रकाशिते वक्तव्ये अवदत् यत्—अस्मिन् वर्षे होली–पर्वणि देशव्यापिनः व्यापारस्य परिमाणं प्रायः ८० सहस्र–कोटि–रूप्यकाणाम् अधिकं भविष्यति, यत् गतवर्षस्य प्रायः ६० सहस्र–कोटि–रूप्यकाणां व्यापारात् सुमारे २५ प्रतिशतं अधिकम् अस्ति।
खंडेलवालः अवदत् यत् अस्मिन् वर्षे होली–पर्वणि भारतीय–निर्मितस्य आयुर्वैदिक–गुलालरागस्य, प्राकृतिक–रागाणां, पिचकारिकाणां, वायुगोलकानां, चन्दनस्य, पूजन–सामग्रीणां, परिधानानां तथा अन्येषां स्वदेशी–उत्पादानां विक्रयः व्यापक–स्तरेण वर्धते। वर्षे २०२१ तमे पूर्वं देशव्यापिषु विपणिषु चीनदेशीय–उत्पादानां प्राधान्यं आसीत्। होली–सम्बद्ध–वस्तुभ्यः अतिरिक्तं मिष्टान्नानां, शुष्क–फलानां, उपहार–वस्तूनां, पुष्प–फलानां, वस्त्राणां, फर्निशिङ्ग–वस्त्राणां, किराण–वस्तूनां, एफ.एम.सी.जी.–उत्पादानां तथा उपभोक्ता–स्थायि–वस्तूनां च अपि प्रचण्डा याचना दृश्यते।
सः अपि अवदत् यत् कैट–संस्थायाः अनुमानानुसारं केवलं दिल्लीनगरे एव प्रायः १५ सहस्र–कोटि–रूप्यकाणां व्यापारः सम्भाव्यते। नगरस्य थोक–खुद्र–आपणा: विविध–वर्णीय–गुलालरागै:, आकर्षकैः पिचकारिकाभिः, गुजिया–मालाभिः तथा शुष्क–फल–पुटकैः अलङ्कृताः दृश्यन्ते, तथा च आपणेषु ग्राहकाणां महान् सम्मर्द: अपि दृश्यते। मिष्टान्न–आपणेषु विशेषतया होली–पर्वण: पारम्परिक–मिष्टान्नस्य ‘गुजिया’ इत्यस्य विक्रये महती वृद्धिः जाता।
कैट–महामन्त्री अवदत् यत् देशव्यापिनः होली–मिलन–समारोहाः विशाल–स्तरेण आयोज्यन्ते। केवलं दिल्लीनगरे एव विभिन्नैः व्यापारी–सामाजिक–सांस्कृतिक–धार्मिक–सङ्घटनैः ३००० तः अधिकाः होली–मिलन–कार्यक्रमाः आयोजिताः सन्ति। एतेन कारणेन 'बैंकट-हाल, फार्महाउस, होटल, रेस्टोरेण्ट तथा सार्वजनिक–उद्यानानि' प्रायः पूर्णतया आरक्षितानि सन्ति।
सः अवदत् यत् दिल्लीनगरे होलिका–दहनं ३ मार्चदिने भविष्यति तथा राग–होलीका ४ मार्चदिने क्रीडिष्यते। सः अवदत् यत् भारतदेशे पर्वाणि केवलं सामाजिक–सांस्कृतिक–उत्सवाः एव न सन्ति, अपि तु तान् आर्थिक–क्रियाकलापान् अपि वेगं ददति।
हिन्दुस्थान समाचार / अंशु गुप्ता