Enter your Email Address to subscribe to our newsletters

-षड्शतं किलोमीटरमितां यात्रां मैग्लेवे करिष्यति मुख्यमंत्री योगी-लौहपथः ऊपरि वायौ तीर्त्वा चलिष्यमाणरेलयानस्य परीक्षण यात्रायां सम्मेलिष्यति मुख्यमंत्री-भारत जापान सहयोगेन स्मार्ट अथ च सतत परिवहनाय मिलितुं शक्नोति नूतनदिङ्
लखनऊ, 22 फरवरीमासः (हि.स.)। योगी आदित्यनाथ, उत्तर प्रदेश इत्यस्य मुख्यमन्त्री, अद्य सिंगापुर तथा जापान इत्येतयोः चतुर्दिवसीयविदेशयात्रां प्रति प्रस्थितः भविष्यति। सः विविधेषु कार्यक्रमेषु सहभागं करिष्यति। २०१७ तमे वर्षे म्यान्मारदेशयात्रायाः अनन्तरं एषा तस्य प्रथमा विदेशयात्रा अस्ति। एषा यात्रा प्रदेशे निवेशकूटनीतेः औद्योगिकविस्तारस्य च दृष्ट्या महत्त्वपूर्णा मन्यते।
२३–२४ फरवरी दिनाङ्कयोः सिंगापुरे, २५–२६ फरवरी दिनाङ्कयोः जापाने च यात्राकाले मुख्यमन्त्री ३३ वैश्विककम्पनीनां प्रतिनिधिभिः सह मिलिष्यति। अस्मिन् अवसरे सः सभाभिः राउण्डटेबल् चर्चाभिश्च निवेशकैः सह प्रत्यक्षं संवादं करिष्यति, प्रदेशस्य औद्योगिकमार्गचित्रं, ‘ईज् डूइंग्’ व्यवस्था, कानूनव्यवस्था, व्यापारस्य सम्भावनाश्च विषये विस्तरेण विचारविमर्शं करिष्यति, यथा प्रदेशे अधिकाधिकं निवेशं आगच्छेत्।
सः प्रवासीभारतीयान् उत्तरप्रदेशवासिनश्च सम्बोधयिष्यति, तत्रत्यैः विद्यालयीयबालकैः सह अपि मिलिष्यति। अस्य यात्रायाः विषये तत्र निवसतां भारतीयानां मध्ये विशेषोत्साहः दृश्यते।
जापानदौरे मुख्यमन्त्री उच्चगतिकरेलयानस्य विशेषानुभवं करिष्यति। सः जापानदेशस्य अत्याधुनिकां ‘मैग्लेव्’ इति चुम्बकीयलेविटेशनरेलगाडीं १०० किलोमीटरपरिमितिं परीक्षणयात्रां करिष्यति—५० किलोमीटर गमनं, ५० किलोमीटर प्रत्यागमनं च।
जापानस्य मैग्लेव् रेलयानं आधुनिकपरिवहनस्य भविष्यरूपेण मन्यते। चुम्बकीयप्रविधेः कारणात् रेलयानस्य पटर्याः च मध्ये प्रत्यक्षसम्पर्कः न भवति, अतः घर्षणं प्रायः शून्यं भवति। एतेन कारणेन एषा रेलगाडी ६०० किलोमीटरप्रतिघण्टा अधिकां गतिं प्राप्नुयात्।
मुख्यमन्त्रिणः अस्य विदेशयात्रायाः उत्तरप्रदेशे आधुनिकपरिवहनसंरचनाविस्तारस्य दृष्ट्या अपि विशेषमहत्त्वं मन्यते। जापानदेशस्य एतादृश्याः भावीप्रविधेः प्रत्यक्षानुभवः नीतिनिर्माणे दीर्घकालिकयोजनायां च उपयोगी भविष्यति। जापानीविशेषज्ञैः उक्तं यत् अस्मिन् रेलयाने सुपरकण्डक्टिंग् चुम्बकाः अत्याधुनिकमार्गदर्शकप्रणाली च उपयुज्यन्ते, येन उच्चगत्या सह स्थैर्यं सुरक्षा च सुनिश्चिते भवतः। अद्यापि परीक्षणावस्थायां सञ्चालितं एतत् रेलयानं जापानदेशस्य उच्चप्रौद्योगिकीक्षमतां प्रदर्शयति।
--------------
हिन्दुस्थान समाचार