यमुनानगरम् :विराट हिंदू सम्मेलने संस्कृतिः, संस्कारः, राष्ट्रसेवा इत्येषां संदेशः
यमुनानगरम्, 22 फ़रवरीमासः (हि.स.) भारतीय-संस्कृतेः मूल्यानि, सामाजिक-समरसता, राष्ट्र-सेवा-भावना च सुदृढीकर्तुं यमुनानगर-नगरस्य सेक्टर-सप्तदशस्थे रेडक्रास-मैदाने विराट् हिन्दू-सम्मेलनस्य आयोजनं कृतम्। अस्मिन् कार्यक्रमे नगरात् समीप-प्रदेशेभ्यः च बह
कार्यक्रम के दौरान मंच पर उपस्थित गणमान्य लोग


यमुनानगरम्, 22 फ़रवरीमासः (हि.स.)

भारतीय-संस्कृतेः मूल्यानि, सामाजिक-समरसता, राष्ट्र-सेवा-भावना च सुदृढीकर्तुं यमुनानगर-नगरस्य सेक्टर-सप्तदशस्थे रेडक्रास-मैदाने विराट् हिन्दू-सम्मेलनस्य आयोजनं कृतम्। अस्मिन् कार्यक्रमे नगरात् समीप-प्रदेशेभ्यः च बहुसंख्यया नागरिकाः, महिलाः, युवानः च सहभागितां कृत्वा सांस्कृतिक-चेतनायाः प्रति स्व-प्रतिबद्धतां प्रकटितवन्तः।

सम्मेलनात् पूर्वं मातृ-शक्त्या पारम्परिक-वेशभूषया सह भव्य-कलश-यात्रा निर्गता, या समग्रं परिसरं आध्यात्मिक-वातावरणेन पूरितवती। ततः अनन्तरं वैदिक-रीत्यानुसारं हवन-यज्ञः आयोजितः, यस्मिन् श्रद्धालवः राष्ट्रस्य उन्नतिं समाजे सद्भावं च कामयमानाः पूर्णाहुतिं दत्तवन्तः।

मुख्य-वक्ता सन्त-गोपाल-जी-महाराजः स्वीय-संबोधने अवदत् यत् संस्कार-युक्तं जीवनमेव दृढ-समाजस्य सशक्त-राष्ट्रस्य च आधार-शिला अस्ति। देशभक्तिः केवलं भावनात्मक-विषयः न, अपितु दैनिक-आचरणेन सम्बद्धं कर्तव्यम् इति तेन उक्तम्। भारतीय-जीवन-पद्धतेः षोडश-संस्कारान् स्वीकृत्य परिवार-समाजयोः नैतिक-मूल्यानां विकासः सम्भवति इति प्रतिपादितम्।

आध्यात्मिक-वक्ता दीदी बीके-अञ्जु सनातन-परम्परां मानव-समाजाय शान्तेः संयमस्य सह-अस्तित्वस्य च मार्गः इति वर्णयन्ती अवदत् यत् आध्यात्मिक-मूल्यानां व्यवहारिक-आचरणे अवतरणं कालस्य आवश्यकता अस्ति।

उत्तर-क्षेत्र-प्रचार-प्रमुखः अनिल-कुमारः समाजं संयोजयन्ती समदृष्टिः हिन्दू-जीवन-दर्शनस्य मूलम् इति निर्दिश्य सेवा-संगठनयोः भूमिकां प्रकाशयत् तथा राष्ट्रीय-स्वयंसेवक-संघस्य सामाजिक-यात्रायाः उल्लेखं कृतवान्।

समाजसेवी अश्वनी-सिंगला प्रत्येकं नागरिकं राष्ट्र-निर्माणे सक्रिय-सहभागितायै आहूतवान्। बिन्दिया-गर्ग इत्यनया संयुक्त-परिवार-व्यवस्था संस्काराणां प्रथम-पाठशाला इति अभिहिता।

कार्यक्रमस्य सांस्कृतिक-सत्रे विद्यार्थिभिः देशभक्ति-आधारिताः प्रस्तुतयः प्रदर्शिताः। चाहत-खन्ना-कविता तथा जसमिन्-नृत्यं उपस्थितानां प्रशंसां प्राप्तवन्तौ। सम्मेलनस्य समापनं राष्ट्रिय-एकता सामाजिक-सहयोगयोः सामूहिक-संकल्पेन सह सम्पन्नम्।

हिन्दुस्थान समाचार