Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २२ फरवरीमासः (हि.स.)। भारतीयजनतापक्ष–कार्यकर्तारः अद्य रविवासरे प्रदेशस्य सर्वेषु शिविरेषु 'मन की बात' इति कार्यक्रमं श्रोष्यन्ति। अस्मिन् कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी स्वविचारान् राष्ट्रं प्रति प्रकटयिष्यति।मुख्यमन्त्री डॉ.मोहनयादवः, भाजपा–प्रदेशाध्यक्षः हेमन्त–खण्डेलवालः, तथा क्षेत्रीय–संघटन–महामन्त्री अजय–जामवालः अपि अद्य विभिन्नेषु शिविरेषु ‘मन की बात’ कार्यक्रमस्य श्रवणं करिष्यन्ति।
सूचनानुसारं मुख्यमन्त्री डॉ.मोहनयादवः तथा क्षेत्रीय–संघटन–महामन्त्री अजय–जामवालः भोपालनगरे नेहरू–नगर–स्थिते आरक्ष–लाइन–प्रांगणे दिव्याङ्ग–क्रीडाकारैः सह कार्यक्रमं श्रोष्यतः। एवमेव भाजपा–प्रदेशाध्यक्षः हेमन्त–खण्डेलवालः बैतूल–विधानसभा–अन्तर्गतस्य बडोरा–मण्डलस्य ग्राम–बडोरा–स्थिते शिविर–क्रमाङ्के २१० कार्यकर्तृभिः तथा सामान्य–नागरिकैः सह प्रातः ११ वादने प्रधानमन्त्रिणः ‘मन की बात’ कार्यक्रमं श्रोष्यति।
एतस्मिन्नेव प्रकारे प्रदेश–शासनस्य मन्त्रिणः, पक्ष–प्रदेश–पदाधिकारिणः, जन–प्रतिनिधयः तथा कार्यकर्तारः अपि प्रदेशव्यापिषु विभिन्नेषु शिविरेषु प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रसारितं ‘मन की बात’ कार्यक्रमं श्रवणं करिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता