Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 22 फरवरीमासः (हि.स.)।
भारत तथा ब्राजील इत्येतयोः मध्ये डाक-क्षेत्रे सहयोगाय सहमति-ज्ञापनम् हस्ताक्षरितम् अस्ति। संचार-मन्त्रालयेन एतत् उभय-देशयोः डाक-सेवासु, डिजिटल-परिवर्तने, समावेशी-सेवा-वितरणे च द्विपक्षीय-सहयोगस्य सुदृढीकरणस्य दिशि महत्त्वपूर्णं पादक्षेपः इति अभिहितम्।
केन्द्रीय-संचार-मन्त्री ज्योतिरादित्य एम् सिन्धिया तथा ब्राजील-देशस्य संचार-मन्त्री फ्रेडेरिको डी सिकेरा फिल्हो, ब्राजील-राष्ट्रपतेः लुइज इनासियो लूला दा सिल्वा भारतस्य राजकीय-यात्रा-समये, अस्मिन् समझौता-ज्ञापने हस्ताक्षरं कृतवन्तौ तथा दस्तावेजानां आदान-प्रदानं कृतवन्तौ।
अस्मिन् सहमति-ज्ञापने श्रेष्ठ-प्रथानां आदान-प्रदानम्, डिजिटल-परिवर्तनम्, सार्वभौम-सेवा, क्षमता-निर्माणम्, संयुक्त-परियोजनाः, वैश्विक-समन्वयः, दक्षिण-दक्षिण-सहयोगः च इत्यादीनि प्रावधानानि अन्तर्भवन्ति। एषः समझौतः प्रारम्भतः पञ्च-वर्ष-पर्यन्तं प्रवर्तिष्यते। अस्मिन् स्वयमेव-नवीनीकरणस्य अपि प्रावधानं विद्यते, तथा च एषः उभय-देशयोः विधि-विनियम-अनुसारं कार्यान्वितः भविष्यति।
एषा रणनीतिक-सहकारिता न केवलं भारत-ब्राजील-देशयोः डाक-जालं आधुनिकीकरिष्यति, अपि तु वैश्विक-दक्षिणस्य प्रमुख-देशत्वेन तयोः मध्ये आर्थिक-सामाजिक-सम्बन्धान् अपि अधिकं सुदृढीकरिष्यति।
---------------
हिन्दुस्थान समाचार