Enter your Email Address to subscribe to our newsletters

आईबीएम–एआई–गवटेक–नवाचार–केन्द्रस्य उद्घाटन–समारोहः
आईबीएम–राज्य–सर्वकारयोः मध्ये सामञ्जस्य–सन्धिपत्रं (एमओयू) हस्ताक्षरितम्
लखनऊनगरम्, २२ फरवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी–आदित्यनाथः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्र–मोदिनः दूरदर्शिता भारतस्य समग्र–विकासस्य दृढां आधारशिलां अस्थापयत्। गत-एकादशवर्षेषु देशेन याः उच्चताः प्राप्ताः, ताः अद्भुताः आश्चर्यजनकाः च सन्ति। उत्तरप्रदेश–सर्वकारः डिजिटल–इण्डिया–अभियानं अग्रे नयन् लखनऊ–नगरं एआई–नगररूपेण विकसनदिशि द्रुतगत्या कार्यं कुर्वन् अस्ति।
मुख्यमन्त्री योगी–आदित्यनाथः रविवासरे लखनऊ–नगरे आयोजिते आईबीएम–एआई–गवटेक–नवाचार–केन्द्रस्य उद्घाटन–समारोहे सम्बोधनं कृतवान्। एषः कार्यक्रमः आईबीएम–कार्यालये प्लेटिनम्–मॉल्, सुशान्त–गोल्फ–सिटी–क्षेत्रे आयोजितः आसीत्। अस्मिन् अवसरे आईबीएम–इण्डिया–संस्थाया: तथा उत्तरप्रदेश–राज्य–सर्वकारयोः मध्ये सामञ्जस्य–सन्धिपत्राणि (एमओयू) अपि हस्ताक्षरितानि। उभयपक्षौ मिलित्वा उत्तरप्रदेशे डिजिटल–क्षेत्रे अधिक–सुदृढरूपेण कार्यं कर्तुं विश्वासं व्यक्तीकृतवन्तौ।
मुख्यमन्त्रिणा दिल्ली–नगरे सम्पन्नस्य एआई–शिखर–सम्मेलनस्य प्रशंसा कृता, तथा उक्तं यत् अद्य विश्वस्य विविध–मञ्चेषु डिजिटल–इण्डिया–योजनायाः सफलताः स्पष्टतया दृश्यन्ते। सः अवदत् यत् भारतस्य सर्वाधिक–जनसंख्यायुक्तं राज्यम् उत्तरप्रदेशः सर्वेषु क्षेत्रेषु शीघ्रं प्रगतिं कृतवान्। आईबीएम–संस्थया सह सम्पन्नानां सन्धिनां लाभः राज्यं अवश्यं प्राप्स्यतीति सः आशां व्यक्तवान्।
विधानसभायाः वित्तविवरण–सत्रे डिजिटल–इण्डिया–विषये दत्तं स्वीयं वक्तव्यं पुनरुक्त्वा मुख्यमन्त्री योगी–आदित्यनाथः अवदत् यत् उत्तरप्रदेशस्य पूर्वाञ्चल–प्रदेशे (विशेषतः गोरखपुर–बस्ती–मण्डले) एन्सेफलाइटिस्/मस्तिष्क–ज्वरः गतैः चत्वारिंशत् वर्षैः बालकानां कृते घातकः अभिशापः आसीत्; अद्यावधि पञ्चाशत्–सहस्रात् अधिकाः मृत्यवः अभवन्। परन्तु कारणानां तथ्याङ्क–विश्लेषणात् ज्ञातं यत् अशुद्ध–जल–उपयोगात् तथा उद्घटिते स्थाने शौच–गमनात् एषा व्याधिः वर्धते। तस्मात् राज्य–सर्वकारेण जल–जीवन–अभियान–योजनया शुद्ध–जल–आपूर्तिः कृता:, तथा प्रधानमन्त्री–मोदिनः ‘मिशन–हर–घर–शौचालय’ योजनया शौचालय–निर्माणेन रोगः नियन्त्रणे आगतः।
एवमेव विद्यालयेषु छात्र–त्याग–दरः अपि शून्यः कृतः। पूर्वं बालिकानां कृते शौचालयानां अभावात् अनेकाः बालिकाः विद्यालयं परित्यजन्ति स्म; अधुना तु सर्वेषु विद्यालयेषु बालकानां बालिकानां च पृथक्–पृथक् शौचालय–निर्माणेन बालिकाः पुनः अध्ययनाय आगताः, छात्र–त्याग–दरः च शून्यः अभवत्।
अस्मिन् अवसरे उत्तरप्रदेश–सर्वकारस्य सूचना–प्रौद्योगिकी–इलेक्ट्रॉनिक्स–विभागस्य प्रमुख–सचिवः अनुराग–यादवः, पूर्व–मुख्य–सचिवः मनोज–कुमार–सिंहः, मुख्यमन्त्रिणः सलाहकारः अवनीश–अवस्थी, आईबीएम–संस्थायाः अध्यक्षः तथा मुख्य–कार्यकारी–अधिकारी अरविन्द–कृष्णः, उपाध्यक्षः विशाल–चञ्चलः, महाप्रबन्धकः सन्दीप–पाटिलः च प्रमुखरूपेण उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता