Enter your Email Address to subscribe to our newsletters

-नमो भारत आरआरटीएस व दिल्ली-मेरठकॉरिडोर राष्ट्राय समर्पितम्
मेरठम्, 22 फ़रवरीमासः (हि.स.)।
Narendra Modi मेरठे विकास-परियोजनानां शुभारम्भः
Narendra Modi पश्चिमोत्तरप्रदेशस्य मेरठ-नगरात् विविध-विकास-परियोजनानां शुभारम्भं कुर्वन् कांग्रेस-दलस्य प्रति तीक्ष्णं प्रहारं कृतवान्। तेन उक्तं यत् भारते आयोजितं विश्वस्य बृहत्तमं एआइ-इम्पैक्ट-सम्मेलनं कांग्रेस-दलस्य तस्य च पार्श्ववर्तिनः “मलिन-नग्न-राजनीतिः” इति मंचः कृतः।
प्रधानमन्त्रिणा उक्तं यत् दिल्ल्यां आयोजिते एआइ-इम्पैक्ट-सम्मेलने अष्टाशीत्यधिक-देशानां प्रतिनिधयः सहभागीभूताः, विंशत्यधिक-देशानां राष्ट्राध्यक्षाश्च भारतम् आगताः। सः मेरठ-निवासिनः अपृच्छत् यत् किं यूयं अस्मिन् वैश्विक-सम्मेलने गौरवं अनुभूतवन्तः। तेन उक्तं यत् समग्रः देशः अस्मात् आयोजनात् गौरवान्वितः आसीत्, किन्तु कांग्रेस-दलेन विदेश-आतिथीनां सम्मुखे अर्धनग्न-प्रदर्शनं कृत्वा देशस्य छविं मलिनीकरणाय प्रयासः कृतः। सः अवदत्, “देशः जानाति यत् यूयं पूर्वमेव नग्नाः, पुनः वस्त्र-त्यागस्य आवश्यकता का? एतत् कांग्रेस-दलस्य वैचारिक-दिवालियापनस्य द्योतकं भवति।”
प्रधानमन्त्रिणा उक्तं यत् एआइ-वैश्विक-सम्मेलनं कस्यापि दलस्य न, अपितु राष्ट्रस्य मान-गौरवस्य कार्यक्रमः आसीत्। तेन आरोपितं यत् कांग्रेस-दलः भारतं अपकीर्तयितुं प्रयतते तथा देशस्य सिद्धीनां स्वीकरणे असमर्थः अस्ति।
अस्मिन् अवसरे प्रधानमन्त्रिणा भारतस्य प्रथमा Namo Bharat Rapid Rail सेवा उद्घाटिता, सम्पूर्णं दिल्ली-मेरठ-नामो-भारत-परियोजना-पथं तथा मेरठ-दक्षिण-मोदीपुरम्-पर्यन्तं मेट्रो-सेवा राष्ट्राय समर्पिता। तेन उक्तं यत् प्रथमवारं एकस्मिन् एव मंचे नामो-भारत-रैपिड-रेल-सेवा तथा मेट्रो-सेवा उद्घाट्येते, यत् विकसित-भारतस्य आधुनिक-संयोजकत्वस्य द्योतकं अस्ति।
प्रधानमन्त्रिणा उक्तं यत् एकस्मिन् एव स्थानके एकस्मिन् एव पथ-रेखायां नामो-भारत-रेल-सेवा तथा मेट्रो-रेल-सेवा संचालनं देशे प्रथमवारं भवति। सरायकालेखां, आनन्द-विहार, गाजियाबाद, मेरठ-स्थानकेषु भारतीय-रेल-सेवा, मेट्रो-सेवा, बस-स्थानकानि च परस्परं संयोजितानि, येन यात्रिकेभ्यः नगर-अन्तर्गतं दिल्ली-पर्यन्तं च सुगम-गमनागमन-सुविधा प्राप्यते।
तेन उक्तं यत् भाजपा-दलस्य “डबल-इञ्जिन-सरकार” इति कार्य-संस्कृतिः अस्ति यत् या परियोजना शिलान्यासेन आरभ्यते, सा समयबद्धतया सम्पन्ना भवति। अधुना परियोजनाः पूर्ववत् दीर्घकालं न लम्बन्ते। तेन उक्तं यत् वर्षे २०१४ पूर्वं देशे मेट्रो-सेवा केवलं पञ्चसु नगरेषु आसीत्, अधुना पञ्चविंशत्यधिक-नगरेषु सञ्चालिता अस्ति, भारतं च मेट्रो-जालस्य विषये विश्वे तृतीय-स्थाने स्थितम्।
प्रधानमन्त्रिणा उक्तं यत् नामो-भारत-रैपिड-रेल-सेवा नारी-शक्तेः सामर्थ्यस्य प्रतीकं अपि अस्ति, यत्र रेल-चालकाः स्थानक-नियन्त्रण-कर्मचारिण्यः च बहुसंख्यया कार्यरताः सन्ति। मेरठ-हापुड्-परिसरः चौधरीचरणसिंहस्य दृष्टिकोणं समीपतः अनुभूतवान्, तस्य भारत-रत्न-प्रदानस्य सौभाग्यं अपि अस्माकं सरकाराय प्राप्तम्।
तेन उक्तं यत् उत्तरप्रदेशस्य कृषकाः प्रधानमंत्री किसानसम्माननिधियोजनया अद्यावधि पञ्चनवतिसहस्र-कोटि-रूप्यकाणि प्राप्तवन्तः। भाजपा-सरकारः देशवासिभ्यः उच्च-वेग-सञ्चारं, जाम-रहितं, प्रदूषण-रहितं च परिवहन-सुविधां दातुं प्रतिबद्धा अस्ति।
प्रधानमन्त्रिणा उक्तं यत् अद्य विश्वस्य विकसित-देशाः भारतस्य सह व्यापार-सन्धीन् कर्तुं उत्सुकाः सन्ति, यतः ते भारतस्य युवा-शक्तौ विकासे च स्वभविष्यं पश्यन्ति। तेन आरोपितं यत् कांग्रेस-शासन-कालस्य घोटालानां कारणेन विश्वं भारतस्य सह सन्धिं कर्तुं संकोचं अनुभवति स्म, किन्तु अद्य भारतं एकविंशतितम-शताब्द्याः आव्हानानां समाधानं दातुं समर्था शक्ति-रूपेण उदेति।
-------------
हिन्दुस्थान समाचार