Enter your Email Address to subscribe to our newsletters

इन्दौरनगरम्, २२ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे पीथमपुर–औद्योगिक–संघटनेन अद्य रविवासरे सायं ४ वादने “पीथमपुर–औद्योगिक–सम्मेलनं तथा पुस्तक–विमोचन–समारोहः” भव्यतया आयोज्यते।
नगरस्य विजयनगर–स्थिते आईसीएआई–भवने आयोज्यमाने अस्मिन् कार्यक्रमे मुख्यमन्त्री डॉ.मोहनयादवः मुख्यातिथिरूपेण उपस्थितः भविष्यति। अस्मिन् अवसरे तं प्रदेशे औद्योगिक–विकासाय नूतनां दिशां प्रदत्तवन्त: तथा निवेश–प्रोत्साहनार्थं कृतानां प्रभावशालीनां प्रयासानां कृते “एंकर-ऑफ-इण्डस्ट्रियल-एक्सीलेंस” इति सम्माननेन अलङ्करिष्यन्ति।
पीथमपुर–औद्योगिक–संघस्य अध्यक्षः डॉ.गौतमकोठारी अवदत् यत् कार्यक्रमस्य प्रमुख–आकर्षणेषु पीथमपुर–औद्योगिक–क्षेत्रस्य चत्वारिंशद्वर्षीय–विकास–यात्रायां आधारितः ऐतिहासिकः स्मारक–ग्रन्थः ‘Pithampur: Zero to Zenith – A Journey of 40 Years’ इत्यस्य विधिवत् विमोचनं समाविष्टम् अस्ति। अयं ग्रन्थः पीथमपुरस्य औद्योगिक–उत्कर्षं, उपलब्धीन्, विकासस्य क्रमिकां यात्रां च विस्तृतरूपेण प्रलेखयति।
अतिरिक्ततया पीथमपुर–औद्योगिक–संघटनस्य (PAS) संस्थापक–सदस्यानां ये मध्य–१९८० तः मध्य–१९९० पर्यन्तं कालखण्डे स्वदूरदर्शिना नेतृत्वेन औद्योगिक–नगर्याः सुदृढं आधारम् अकार्षुः— विशेषं सम्मानं अपि भविष्यति। सम्मेलनस्य अन्तर्गतं प्रदेशस्य औद्योगिक–विकासः, निवेश–पर्यावरणस्य सुदृढता, तथा अग्रिम–औद्योगिक–परिसराणां विषये भविष्य–रूपरेखा इत्येतत् विषयकं विचार–विमर्शः अपि करिष्यते। कार्यक्रमेण पीथमपुरस्य औद्योगिक–उपलब्धयः, निवेश–सम्भावनाः, सतत–विकासं प्रति प्रतिबद्धता च स्पष्टतया प्रकाशयिष्यन्ते।
पीथमपुर–औद्योगिक–संघटनेन उद्योग–जगतः, निवेशकाः, नीति–निर्मातारः तथा गणमान्य–नागरिकाः कार्यक्रमे सहभागितां कुर्वन्तु इति आवाहनं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता