Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, २२ फरवरीमासः (हि.स.)। नेपालस्य उद्योग–वाणिज्य–आपूर्ति–मन्त्री अनिलकुमार: सिन्हा अवदत् यत् पेट्रोलियम–पदार्थेषु १० प्रतिशत–इथेनॉल–मिश्रणेन नेपालदेशः प्रतिवर्षं प्रायः ६०० कोटि–रूप्यकाणां अवशेषं कर्तुं शक्नोति तथा पेट्रोलियम–आयाते उल्लेखनीया न्यूनता अपि साध्यते।
राजधान्यां रविवासरे आयोजिते एकस्मिन् कार्यक्रमे सः अवदत् यत् पेट्रोल-इथेनॉल–मिश्रणस्य निर्णयः दीर्घकालीन–अध्ययनस्य व्यापक–चर्चायाश्च अनन्तरं सम्प्रति क्रियान्वयन–चरणं प्राप्तः अस्ति। अस्य प्रयत्नस्य परिणामस्वरूपं व्यापार–घट्ट–न्यूनिकरणे महत्त्वपूर्णं योगदानं भविष्यतीति तस्य कथनम् अस्ति। मन्त्री सिन्हा उल्लिखितवान् यत् इथेनॉल–मिश्रण–सम्बन्धी-अध्ययनं विगत–द्वयोः दशकयोः निरन्तरं क्रियमाणम् आसीत्। सः अवदत् यत् अधुना पेट्रोल-इथेनॉल–मिश्रण–सम्बन्धीन: आदेशः स्वीकृतः अस्ति, तथा सा नीति: राजपत्रे प्रकाश्य प्रवर्तन–प्रक्रियायां अस्ति।
सः अवदत् यत् पेट्रोलेइथेनॉल–मिश्रणं स्वच्छ–ऊर्जा–दिशि एकं महत्त्वपूर्णं पादं भवति। मन्त्री सिन्हा स्पष्टतया अवदत् यत् यदि पेट्रोलियम–पदार्थेषु १० प्रतिशतं इथेनॉलं मिश्र्यते, तर्हि नेपालदेशे प्रतिवर्षं १३ कोटि–लीटर–परिमाणस्य पेट्रोलस्य आयातः न्यूनितुं शक्यते। एतेन प्रायः ६०० कोटि–रूप्यकाणां तुलनाया: विदेश–मुद्रायाः अवशेष: भविष्यति। एष: अवशेष: नेपालदेशीय–जनानां परिश्रम–सम्पादितस्य आयस्य संरक्षणं करिष्यति, तथा च एषा राशि: स्थानीय–स्तरे नव–आर्थिक–चक्रस्य प्रवर्तनाय अपि सहायिका भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता