Enter your Email Address to subscribe to our newsletters

नवदेहली, 22 फरवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी स्वकीये 'मन की बात' इति कार्यक्रमे देहल्यां आयोजिते 'ग्लोबल एआई इम्पैक्ट समिट' मध्ये प्रदर्शितानां द्वयोः तादृशयोः उत्पादनयोः विशेषं उल्लेखं कृतवान्, याभ्यां विश्वस्य नेतारः प्रभाविताः अभवन्। एतयोः एकम् उत्पादनम् एआई-माध्यमेन पशूनां चिकित्सया दुग्धशाला-प्रबन्धनेन च सम्बद्धम् आसीत्, अपरं च एआई-सहायतया भारतस्य प्राचीन-पाण्डुलिपीनां ज्ञानस्य च संरक्षणेन सह सम्बद्धम् आसीत्।
प्रधानमन्त्रिणा रविवासरे 'मन की बात' इत्यस्य १३१ तमे अध्याये उक्तं यत्— मन की बात कार्यक्रमः देशस्य देशवासिनां च उपलब्धीनां प्रकटीकरणस्य एकं सशक्तं माध्यमं सञ्जातः अस्ति। एषः मञ्चः तान् प्रयासान् नवोन्मेषान् च परिचयं ददाति, ये भारतस्य सामर्थ्यं प्रतिभां च दर्शयन्ति। सम्प्रति 'भारत मण्डपम्' मध्ये आयोजितं 'एआई इम्पैक्ट समिट' अपि ईदृश्याः एव एकायाः ऐतिहासिक्याः उपलब्धेः उदाहरणम् अस्ति, येन विश्वस्य ध्यानं भारतं प्रति आकर्षितम्।
तेन उक्तं यत् अस्मिन् शिखरसम्मेलने अनेकेषां देशानां शीर्षनेतारः, वैश्विक-प्रौद्योगिकी-संस्थानां मुख्याधिकारिणः, उद्योगजगतः प्रतिनिधयः, नवप्रवर्तकाः स्टार्टअप-क्षेत्रेण सम्बद्धाः युवानः च सम्मिलिताः अभवन्। अस्मिन् अवसरे एआई-शक्तेः, सम्भावनानां भविष्यस्य दिशः च उपरि व्यापका चर्चा अभवत्। एतत् सम्मेलनम् एतस्य सङ्केतः अस्ति यत् आगामिनि काले एआई-वैश्विकविकासस्य दिशं निश्चितं कर्तुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति, भारतं च अस्य परिवर्तनस्य अग्रणी सहभागी भवति।
प्रधानमन्त्रिणा उक्तं यत् प्रदशर्न्यां तस्मै विश्वनेतृभ्यः भारतस्य अनेकान् नवोन्मेषान् दर्शयितुम् अवसरः प्राप्तः। तेन 'अमूल' इत्यस्य वीथिकायां प्रदर्शितस्य एकस्य उत्पादनस्य उल्लेखं कुर्वता उक्तं यत्— अस्मिन् उत्पादने एआई-माध्यमेन पशूनां स्वास्थ्यस्य निरीक्षणे चिकित्सने च सहायता प्रदीयते। अपि च २४ होराः उपलब्ध-एआई-सहायता-प्रणाल्या कृषकाः स्वकीयां दुग्धशालां, पशूनां स्वास्थ्यं, दुग्धोत्पादनं अन्याः गतिविधयः च सुलभतया लेखयितुं शक्नुवन्ति। एषा तक्नीकी कृषकाणां कृते अतीव उपयोगिनी सिद्धा भवति, अनेन पशुपालनक्षेत्रे महत् परिवर्तनं भवितुं शक्नोति।
तेन उक्तं यत् सम्मेलने प्रदर्शितं द्वितीयम् उत्पादनं भारतस्य समृद्ध-सांस्कृतिक-विरासतया सह सम्बद्धम् आसीत्। एतया प्रविध्य एआई-सहायतया प्राचीनानां ग्रन्थानां, पाण्डुलिपीनां पारम्परिकज्ञानस्य च 'डिजिटल' रूपेण संरक्षणं क्रियते। एतेन सह एव एतत् ज्ञानं आधुनिकतन्त्रेण तथा उपस्थाप्यते यथा अद्यतनी सन्ततिः अपि एतत् सरलताया बोद्धुं शक्नुयात् सम्बद्धा च भवेत्। एतं प्रयासं दृष्ट्वा विश्वनेतारः अपि आश्चर्यान्विताः अभवन्, भारतस्य अस्यां दिशि जायमानायाः प्रगतेः प्रशंसां च कृतवन्तः।
प्रधानमन्त्रिणा प्रतिपादितं यत् भारतं अद्य प्रौद्योगिकी-नवोन्मेष-क्षेत्रे वेगेन अग्रे सरति। देशस्य युवानः, स्टार्टअप-संस्थाः नवप्रवर्तकाः च एआई-सदृशेषु अत्याधुनिकक्षेत्रेषु नूतनानि समाधानानि विकसयन्ति। भारतस्य एषा क्षमता न केवलं देशस्य विकासं गतिं दास्यति, अपितु सम्पूर्णविश्वस्य कृते अपि उपयोगिनी सिद्धा भविष्यति। प्रधानमन्त्रिणा उक्तं यत्— एआई-शक्तेः उपयोगः मानवतायाः कल्याणाय करणीयः। भारतम् अस्यां दिशि उत्तरदायित्वेन संवेदनशिलतया च अग्रे वर्धते। भारतस्य लक्ष्यं तादृश्याः तक्नीक्याः विकासः अस्ति, या 'सर्वजनहिताय सर्वजनसुखाय' इति सिद्धान्ते आधारिता भवेत्।
---------------
हिन्दुस्थान समाचार