मनोवार्तायां प्रधानमंत्री अंगदानकर्त्रीं 10 मासीयां बालाम् आलिनं प्रंशसितवान्
नव दिल्ली, 22 फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी स्वस्य मन की बात कार्यक्रमे केरळराज्यस्य दशमासीयायाः बालिकायाः आलिन शेरिन अब्राहम इत्यस्याः अङ्गदानस्य उल्लेखं कृतवान्। सः अवदत् यत् अल्पायुषः अपि सा अनेकेभ्यः जनानां जीवनदानस्य मार्गं द
मन की बात कार्यक्रम के 131 वां प्रसारण


नव दिल्ली, 22 फरवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी स्वस्य मन की बात कार्यक्रमे केरळराज्यस्य दशमासीयायाः बालिकायाः आलिन शेरिन अब्राहम इत्यस्याः अङ्गदानस्य उल्लेखं कृतवान्। सः अवदत् यत् अल्पायुषः अपि सा अनेकेभ्यः जनानां जीवनदानस्य मार्गं दर्शितवती। तस्याः मातापितरौ अरुण अब्राहम तथा शेरिन इत्येतौ स्वपुत्र्याः अङ्गदाननिर्णयं कृत्वा सम्पूर्णदेशं प्रेरितवन्तौ। आलिन अधुना अस्मिन् लोके नास्ति, किन्तु तस्याः नाम देशस्य न्यूनतमवयस्केषु अङ्गदातृषु सम्मिलितम् अभवत्। अङ्गदानस्य माध्यमेन अनेके जनाः नूतनजीवनं प्राप्नुवन्ति, चिकित्सानुसन्धानाय अपि नूतना दिशा लभ्यते।

रविवासरे कार्यक्रमस्य १३१ तमे प्रसारणे प्रधानमन्त्री अवदत् यत् देशः अधुना दास्यमनसिकतां परित्यज्य स्वमहापुरुषेभ्यः उचितं सम्मानं ददाति। सः उक्तवान् यत् २३ फरवरी दिनाङ्के राष्ट्रपति भवन इत्यत्र ‘राजाजी उत्सवः’ आचरिष्यते, अस्मिन् अवसरे स्वातन्त्र्योत्तरभारतस्य प्रथमभारतीयगवर्नरजनरलस्य सी. राजगोपालाचारी प्रतिमायाः अनावरणं भविष्यति। पूर्वं तत्र ब्रिटिशवास्तुकारस्य एडविन लुटियन्स् इत्यस्य प्रतिमा आसीत्, किन्तु अधुना तस्याः स्थाने राजगोपालाचार्यस्य प्रतिमा स्थाप्यते। राजगोपालाचारी सत्ता सेवायाः साधनरूपेण अमन्यत, तस्य जीवनं अद्यापि देशवासिनः प्रेरयति। एषः कदम् राष्ट्रस्य विरासतायाः सम्मानस्य प्रतीकः इति सः अवदत्।

आगामिनौ रमजान तथा होली इत्येतयोः उत्सवयोः उल्लेखं कृत्वा प्रधानमन्त्री देशवासिभ्यः स्वदेशीवस्तूनां ग्रहणाय आह्वानं कृतवान्। सः अवदत् यत् एतेषु उत्सवेषु आनन्दं कुर्वन्तः भवन्तः स्थानीयवस्तूनि अवश्यं स्मरन्तु। अद्य अस्माकं उत्सवेषु बहूनि विदेशीवस्तूनि प्रविष्टानि सन्ति, तानि उत्सवात् दूरं स्थापनीयानि। स्वदेशीवस्तूनां ग्रहणेन देशस्य अर्थव्यवस्था सुदृढा भवति, भारतस्य आत्मनिर्भरत्वे साहाय्यं भवति।

प्रधानमन्त्री उक्तवान् यत् ‘मन की बात’ कार्यक्रमः देशस्य देशवासिनां च उपलब्धीनां प्रस्तुतीकरणस्य महत्त्वपूर्णं माध्यमं जातम्। हालिहालि नूतनदिल्ली नगरे आयोजितस्य इण्डिया एआई इम्पैक्ट् शिखरसम्मेलनस्य उल्लेखं कृत्वा सः अवदत् यत् अस्मिन् विश्वस्य अनेकदेशीयनेतारः, उद्योगप्रतिनिधयः, नवाचारविशेषज्ञाः नवउद्यमिनश्च सहभागिनः अभवन्। एषः सम्मेलनः विश्वे कृत्रिमबुद्धिमत्तायाः भविष्यं निर्देशयितुं महत्त्वपूर्णः अभवत्। अस्मिन् सम्मेलने भारतदेशेन स्वदेशे विकसिताः त्रयः एआई आदर्शाः अपि प्रस्तुताः। एषः अद्यावधि महानतमः सम्मेलनः आसीत्, युवानां महती सहभागिता च अभवत्।

प्रधानमन्त्री अवदत् यत् अद्य बहवः भारतीयमूलोद्भवाः क्रीडकाः अन्यदेशीयदलानां पक्षे क्रीडित्वा भारतस्य नाम उज्ज्वलयन्ति। कनाडा, अमेरिका, ओमान, न्यूजीलैण्ड्, इटली, संयुक्तअरबएमीरात् इत्यादीनां दलानां मध्ये बहवः भारतीयमूलोद्भवाः क्रीडकाः सन्ति।

सः उक्तवान् यत् दिल्लीप्रदेशस्य लक्ष्मीदेवी हृदयप्रतिरोपणानन्तरं केदारनाथयात्रां कृतवती। पश्चिमबङ्गप्रदेशस्य गौराङ्गबनेर्जी फुफ्फुसप्रतिरोपणानन्तरं उच्चपर्वतीयप्रदेशं गतवान्। राजस्थानप्रदेशस्य रामदेवसिंहः वृक्कप्रतिरोपणानन्तरं क्रीडाक्रियासु सहभागं कृतवान्। एते उदाहरणानि दर्शयन्ति यत् अङ्गदानेन जनानां नूतनजीवनं संभवति।

प्रधानमन्त्री उक्तवान् यत् अद्य डिजिटल्ग्रहणं वित्तीयप्रपञ्चवंचना च दृश्यन्ते। जनाः स्वबैंकखातस्य विवरणं गुप्ताङ्कं अन्यां गोपनीयां जानकारीं च कस्यापि न ददतु। बैंकसम्बद्धकार्याणि केवलम् अधिकृतमार्गेण करणीयानि, समये समये गुप्तशब्दपरिवर्तनं करणीयम्। भारतीय रिजर्व बैंक वित्तीयसाक्षरतायाः अभियानं चालयति, तस्य लाभः ग्राह्यः इति सः अवदत्।

प्रधानमन्त्री उक्तवान् यत् भारतस्य कृषकाः अधुना आधुनिकतां नवाचारं च स्वीकरोन्ति। ओडिशाप्रदेशस्य कृषकः हिरोदपटेलः एकस्मिन् स्थाने बहुविधकृषिं मत्स्यपालनं च आरभ्य स्वआयम् वर्धितवान् इति उदाहरणं दत्तम्। केरळप्रदेशे कस्यचित् ग्रामे ५७० प्रकाराः धान्यप्रजातयः उत्पाद्यन्ते।

भारतदेशः अधुना विश्वस्य महानतमः तण्डुलोत्पादकदेशः जातः, १५ कोटिटनाधिकं उत्पादनं करोति। भारतीयकृष्युत्पादनानि विदेशेषु अपि निर्यात्यन्ते। प्रधानमन्त्री केरलकुम्भस्य उल्लेखं कृत्वा अवदत् यत् एषः भारतस्य सांस्कृतिकैकतायाः प्रतीकः, प्राचीनपरम्पराणां सुदृढीकरणं करोति। अन्ते सः जे. जयललिता इत्यै श्रद्धाञ्जलिं अर्पयन् अवदत् यत् तया दुर्बलवर्गस्य हिताय अनेके महत्त्वपूर्णकार्याणि कृतानि, तस्याः सेवाः सदा स्मरणीयाः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार