प्रधानमन्त्रिणा मोदिना टी–२० विश्वकपे भारतीय–मूल–क्रिकेटर-क्रीडकाणां भूमिका प्रशंसिता
नवदिल्ली, २२ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे स्वस्य साप्ताहिक–वेतारयन्त्र–कार्यक्रमे ''मन की बात'' इत्यस्य १३१–तम–कण्डिकायां आईसीसी पुरुष टी–२० विश्वकप-विषये उल्लेखं कृतवान्। तेन अमेरिका, कनाडा तथा ओमान–देशानां दलेषु प्रतिन
प्रधानमंत्री नरेन्द्र मोदी-टी20 विश्व कप लोगो


नवदिल्ली, २२ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे स्वस्य साप्ताहिक–वेतारयन्त्र–कार्यक्रमे 'मन की बात' इत्यस्य १३१–तम–कण्डिकायां आईसीसी पुरुष टी–२० विश्वकप-विषये उल्लेखं कृतवान्। तेन अमेरिका, कनाडा तथा ओमान–देशानां दलेषु प्रतिनिधित्वं कुर्वन्तः भारतीय–मूल–क्रिकेटराः मुक्तकण्ठेन प्रशंसिताः। सः अवदत्— भारतीयाः यत्र यत्र गच्छन्ति, तत्र तत्र मातृभूमेः मूलैः सह सम्बद्धा एव तिष्ठन्ति; स्वकर्मभूमौ च, यस्मिन् देशे वसन्ति, तस्य विकासे अपि योगदानं कुर्वन्ति।

प्रधानमन्त्री अवदत् यत् अद्यकाले बहवः जनाः टी–२० विश्वकपस्य स्पर्धाः पश्यन्ति। स्पर्धां पश्यन्तः कदाचित् कस्यचित् विशेष–क्रीडके नेत्रे स्थिरं भवतः— जर्सी अन्यदेशस्य दृश्यते, किन्तु नामश्रवणेन “अरे, अयं तु स्वदेशीयः” इति भावः जायते। तदा हृदयस्य कस्यचित् कोणे सूक्ष्मा प्रसन्नता उदेति; यतः सः क्रीडकः भारतीय–मूलः सन् तस्य देशस्य कृते क्रीडति, यत्र तस्य परिवारः निवसति। ते स्व–स्व–देश–जर्सीं धारयन्तः पूर्णमनसा तेषां देशान् प्रतिनिधित्वं कुर्वन्ति।

सः अवदत् यत् कनाडा–दले सर्वाधिकाः भारतीय–मूल–क्रीडकाः सन्ति। दल–नायकः दिलप्रीत–बाज्वा पंजाबराज्यस्य गुरदासपुरात् जातः; नवनीत–धालीवालः चण्डीगढनगरस्य अस्ति। अस्यां सूचीमध्ये हर्ष–ठाकरः, श्रेयस–मोवा इत्यादयः अपि सन्ति— ये कनाडा–भारतयोः उभयोः गौरवं वर्धयन्ति।

अमेरिका–दलेऽपि भारतस्य गृह्य–क्रिकेटात् निर्गताः बहवः क्रीडकाः सन्ति। अमेरिकी–दलस्य नायकः मोनाङ्क–पटेलः गुजरातस्य अण्डर–१६ तथा अण्डर–१८ दलेषु पूर्वं क्रीडितवान्। मुम्बई-इत्यस्य सौरभः, हरमीत–सिंहः, दिल्लीत: मिलिन्द–कुमारः— एते सर्वे अमेरिकी–दलस्य शोभां वर्धयन्ति।

एवमेव ओमान–दलेऽपि बहवः क्रीडकाः सन्ति, ये पूर्वं भारतस्य विभिन्नेषु राज्येषु क्रीडितवन्तः— जतिन्दर–सिंहः, विनायक–शुक्लः, करनः, जयः, आशीषः इत्यादयः ओमान–क्रिकेटस्य दृढाः स्तम्भाः सन्ति। न्यूज़ीलैण्ड–संयुक्त–अरब–अमीरात (यूएई)–इटली–दलेष्वपि भारतीय–मूल–क्रीडकाः स्वस्थानं सुदृढं कुर्वन्ति। प्रधानमन्त्री अवदत्— एते सर्वे न केवलं स्व–देशानां गौरवं वर्धयन्ति, अपि तु तत्रस्थ–युवानां कृते प्रेरणारूपाः भवन्ति; एषैव भारतीयताया: विशेषता।

अन्ते, आईसीसी पुरुष: टी–२० विश्वकप २०२६ विषये उक्तं यत् अमेरिका, कनाडा तथा ओमान–दलानि विशेष–८ कृते अर्हतां न प्राप्तवन्तः; तथापि ते शीर्ष–वैश्विक–दलेषु विरुद्धं प्रशंसनीयं प्रदर्शनं कृतवन्तः। अमेरिका–दलेन समूह–चरणे चतसृषु स्पर्धासु द्वयं विजयं प्राप्तम्; कनाडा–ओमान–दले तु चतस्रः स्पर्धाः पराजिताः। इटली–यूएई–दले तु एकैकस्यां स्पर्धायां विजयः प्राप्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता