राष्ट्रपति भवने 23 फरवरी तमे दिनांके ‘राजाजी उत्सवः’, सी. राजगोपालाचारिणः प्रतिमायाः भविष्यति अनावरणम् : प्रधानमंत्री
नव दिल्ली, 22 फरवरीमासः(हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी रविवासरे अवदत् यत् २३ फरवरी दिनाङ्के राष्ट्रपति भवन इति स्थाने ‘राजाजी उत्सवः’ आयोज्यते। अस्मिन् अवसरे राष्ट्रपति भवनस्य केन्द्रीय प्राङ्गणे स्वातन्त्र्योत्तरभारते प्रथमस्य भारतीयस्य गवर
मन की बात का लोगो


नव दिल्ली, 22 फरवरीमासः(हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी रविवासरे अवदत् यत् २३ फरवरी दिनाङ्के राष्ट्रपति भवन इति स्थाने ‘राजाजी उत्सवः’ आयोज्यते। अस्मिन् अवसरे राष्ट्रपति भवनस्य केन्द्रीय प्राङ्गणे स्वातन्त्र्योत्तरभारते प्रथमस्य भारतीयस्य गवर्नर जनरलस्य सी. राजगोपालाचारी महोदयस्य प्रतिमायाः अनावरणं क्रियते।

स्वस्य मासिक रेडियोकार्यक्रमे मन की बात इत्यस्य १३१तमभागे प्रधानमन्त्री उक्तवान् यत् अद्य भारतदेशः दास्यचिह्नानि परित्यज्य स्वसंस्कृतिसम्बद्धवस्तूनां महत्त्वं प्रतिपादयन् अग्रे गच्छति। तेन उक्तं यत् अस्यैव क्रमस्य अन्तर्गतं राष्ट्रपति भवनमपि एकं महत्त्वपूर्णं पदं स्थापितवान् अस्ति, ‘राजाजी उत्सवस्य’ आयोजनं च कृतम् अस्ति।

प्रधानमन्त्री अवदत् यत् सी. राजगोपालाचारी महापुरुषेषु एकः आसीत्, येन सत्ता पदरूपेण न दृष्टा, अपितु सेवारूपेण अवलोकिता। तस्य सार्वजनिकजीवने आचरणम्, आत्मसंयमः, स्वातन्त्र्यचिन्तनं च अद्यापि देशवासिनः प्रेरयन्ति।

कार्यक्रमे प्रधानमन्त्री परीक्षायाः सिद्धतां कुर्वतां विद्यार्थिनां प्रति अपि सन्देशं दत्तवान्। तेन उक्तं यत् बालकाः ‘एग्जाम् वॉरियर्स्’ सन्ति, ते च स्वस्मिन् विश्वासं धारयन्तु। कस्यचित् छात्रस्य मूल्यं तस्य अङ्कपत्रिकया न निर्धार्यते। यत् अधीतं तत् सम्यक् मनसा लिखन्तु, एकस्मिन् कठिनप्रश्ने चित्तं न निवेशयन्तु। सः विद्यार्थिभ्यः मातृपितृभ्यां शिक्षकैश्च सह संवादं स्थापयितुं परामर्शं दत्तवान्, विश्वासं च व्यक्तवान् यत् ते परीक्षायां जीवने च सफलतां प्राप्स्यन्ति।

अस्मिन् एव अवसरे प्रधानमन्त्री जे. जयललिता इत्यै अपि श्रद्धाञ्जलिं अर्पितवान्। तेन उक्तं यत् अम्मा जयललिता इव लोकप्रियनेत्री जनानां हृदयेषु सदा जीवति। विशेषतया स्त्रीशक्तिकरणाय तया कृताः प्रशंसनीयाः प्रयत्नाः सदा स्मरणीयाः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार